वाल्मीकि रामायणे किष्किन्धकाण्ड - पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा

॥ वानरबलप्रतिष्ठा ॥

सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः ।
समस्तानब्रवीद्भूयो रामकार्यार्थसिद्धये ॥ १ ॥

एवमेतद्विचेतव्यं यन्मया परिकीर्तितम् ।
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः ॥ २ ॥

शलभा इव सञ्छाद्य मेदिनीं सम्प्रतस्थिरे ।
रामः प्रस्रवणे तस्मिन् न्यवसत्सहलक्ष्मणः ॥ ३ ॥

प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः ।
उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् ॥ ४ ॥

प्रतस्थे हरिभिर्वीरो हरिः शतवलिस्तदा ।
पूर्वां दिशं प्रति ययौ विनतो हरियूथपः ॥ ५ ॥

ताराङ्गदादिसहितः प्लवगः पवनात्मजः ।
अगस्त्यचरितामाशां दक्षिणां हरियूथपः ॥ ६ ॥

पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः ।
प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम् ॥ ७ ॥

ततः सर्वा दिशो राजा चोदयित्वा यथातथम् ।
कपिसेनापतीन् मुख्यान् मुमोद सुखितः सुखम् ॥ ८ ॥

एवं सञ्चोदिताः सर्वे राज्ञा वानरयूथपाः ।
स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे ॥ ९ ॥

आनयिष्यामहे सीतां हनिष्यामश्च रावणम् ।
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ १० ॥

क्ष्वेलन्तो धावमानाश्च विनदन्तो महाबलाः ।
अहमेको हनिष्यामि प्राप्तं रावणमाहवे ॥ ११ ॥

ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ।
वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति ॥ १२ ॥

एक एवाहरिष्यामि पातालादपि जानकीम् ।
विमथिष्याम्यहं वृक्षान् पातयिष्याम्यहं गिरीन् ॥ १३ ॥

धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ।
अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः ॥ १४ ॥

शतं योजनसङ्ख्यायाः शतं समधिकं ह्यहम् ।
भूतले सागरे वापि शैलेषु च वनेषु च ॥ १५ ॥

पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ।
इत्येकैकं तदा तत्र वानरा बलदर्पिताः ।
ऊचुश्च वचनं तत्र हरिराजस्य सन्निधौ ॥ १६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥

<< 44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः 46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम् >>

1. प्रथमः सर्गः – रामविप्रलम्भावेशः

2. द्वितीयः सर्गः – सुग्रीवमन्त्रः

3. तृतीयः सर्गः – हनूमत्प्रेषणम्

4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्

5. पञ्चमः सर्गः – सुग्रीवसख्यम्

6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्

7. सप्तमः सर्गः – रामसमाश्वासनम्

8. अष्टमः सर्गः – वालिवधप्रतिज्ञा

9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः

10. दशमः सर्गः – राज्यनिर्वासकथनम्

11. एकादशः सर्गः – वालिबलाविष्करणम्

12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्

13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः

14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्

15. पञ्चदशः सर्गः – ताराहितोक्तिः

16. षोडशः सर्गः – वालिसंहारः

17. सप्तदशः सर्गः – रामाधिक्षेपः

18. अष्टादशः सर्गः – वालिवधसमर्थनम्

19. एकोनविंशः सर्गः – तारागमनम्

20. विंशः सर्गः – ताराविलापः

21. एकविंशः सर्गः – हनुमदाश्वासनम्

22. द्वाविंशः सर्गः – वाल्यनुशासनम्

23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्

24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्

25. पञ्चविंशः सर्गः – वालिसंस्कारः

26. षड्विंशः सर्गः – सुग्रीवाभिषेकः

27. सप्तविंशः सर्गः – माल्यवन्निवासः

28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्

29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्

30. त्रिंशः सर्गः – शरद्वर्णनम्

31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः

32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः

33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्

34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्

35. पञ्चत्रिंशः सर्गः – तारासमाधानम्

36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः

37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्

38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्

39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः

40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्

41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्

42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्

43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्

44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः

45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा

46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्

47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्

48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः

49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः

50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः

51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्

52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्

53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः

54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्

55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः

56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः

57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्

58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः

59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः

60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्

61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्

62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्

63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः

64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्

65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्

66. षट्षष्टितमः सर्गः – हनूमद्बलसन्धुक्षणम्

67. सप्तषष्टितमः सर्गः – लङ्घनावष्टम्भः