वाल्मीकि रामायणे किष्किन्धकाण्ड - षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्

॥ भूमण्डलभ्रमणकथनम् ॥

गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् ।
कथं भवान् विजानीते सर्वं वै मण्डलं भुवः ॥ १ ॥

सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् ।
श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ॥ २ ॥

यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् ।
परिकालयते वाली मलयं प्रति पर्वतम् ॥ ३ ॥

तदा विवेश महिषो मलयस्य गुहां प्रति ।
विवेश वाली तत्रापि मलयं तज्जिघांसया ॥ ४ ॥

ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत् ।
न च निष्क्रमते वाली तदा संवत्सरे गते ॥ ५ ॥

ततः क्षतजवेगेन आपुपूरे तदा बिलम् ।
तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥ ६ ॥

अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः ।
शिला पर्वतसङ्काशा बिलद्वारि मयावृता ॥ ७ ॥

अशक्नुवन्निष्क्रमितुं महिषो विनिशोदिति ।
ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते ॥ ८ ॥

राज्यं च सुमहत्प्राप्तं तारया रुमया सह ।
मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ॥ ९ ॥

आजगाम ततो वाली हत्वा तं दानवर्षभम् ।
ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः ॥ १० ॥

स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः ।
परिकालयते क्रोधाद्धावन्तं सचिवैः सह ॥ ११ ॥

ततोऽहं वालिना तेन सानुबन्धः प्रधावितः ।
नदीश्च विविधाः पश्यन् वनानि नगराणि च ॥ १२ ॥

आदर्शतलसङ्काशा ततो वै पृथिवी मया ।
अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ॥ १३ ॥

पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान् ।
पर्वतांश्च नदी रम्याः सरांसि विविधानि च ॥ १४ ॥

उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् ।
क्षीरोदं सागरं चैव नित्यमप्सरसालयम् ॥ १५ ॥

परिकालयमानस्तु वालिनाऽभिद्रुतस्तदा ।
पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो ॥ १६ ॥

पुनरावर्तमानस्तु वालिनाऽभिद्रुतो द्रुतम् ।
दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् ॥ १७ ॥

विन्ध्यपादपसङ्कीर्णां चन्दनद्रुमशोभिताम् ।
द्रुमशैलांस्ततः पश्यन् भूयो दक्षिणतोऽपरान् ॥ १८ ॥

पश्चिमां तु दिशं प्राप्तो वालिना समभिद्रुतः ।
सम्पश्यन् विविधान् देशानस्तं च गिरिसत्तमम् ॥ १९ ॥

प्राप्य चास्तं गिरिश्रेष्ठमुत्तरां सम्प्रधावितः ।
हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् ॥ २० ॥

यदा न विन्दं शरणं वालिना समभिद्रुतः ।
तदा मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत् ॥ २१ ॥

इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः ।
मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले ॥ २२ ॥

प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत् ।
तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति ॥ २३ ॥

ततः पर्वतमासाद्य ऋश्यमूकं नृपात्मज ।
न विवेश तदा वाली मतङ्गस्य भयात्तदा ॥ २४ ॥

एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम् ।
पृथिवीमण्डलं कृत्स्नं गुहामस्यागतस्तः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥

<< 45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा 47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम् >>

1. प्रथमः सर्गः – रामविप्रलम्भावेशः

2. द्वितीयः सर्गः – सुग्रीवमन्त्रः

3. तृतीयः सर्गः – हनूमत्प्रेषणम्

4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्

5. पञ्चमः सर्गः – सुग्रीवसख्यम्

6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्

7. सप्तमः सर्गः – रामसमाश्वासनम्

8. अष्टमः सर्गः – वालिवधप्रतिज्ञा

9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः

10. दशमः सर्गः – राज्यनिर्वासकथनम्

11. एकादशः सर्गः – वालिबलाविष्करणम्

12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्

13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः

14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्

15. पञ्चदशः सर्गः – ताराहितोक्तिः

16. षोडशः सर्गः – वालिसंहारः

17. सप्तदशः सर्गः – रामाधिक्षेपः

18. अष्टादशः सर्गः – वालिवधसमर्थनम्

19. एकोनविंशः सर्गः – तारागमनम्

20. विंशः सर्गः – ताराविलापः

21. एकविंशः सर्गः – हनुमदाश्वासनम्

22. द्वाविंशः सर्गः – वाल्यनुशासनम्

23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्

24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्

25. पञ्चविंशः सर्गः – वालिसंस्कारः

26. षड्विंशः सर्गः – सुग्रीवाभिषेकः

27. सप्तविंशः सर्गः – माल्यवन्निवासः

28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्

29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्

30. त्रिंशः सर्गः – शरद्वर्णनम्

31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः

32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः

33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्

34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्

35. पञ्चत्रिंशः सर्गः – तारासमाधानम्

36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः

37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्

38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्

39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः

40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्

41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्

42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्

43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्

44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः

45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा

46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्

47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्

48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः

49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः

50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः

51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्

52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्

53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः

54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्

55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः

56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः

57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्

58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः

59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः

60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्

61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्

62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्

63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः

64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्

65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्

66. षट्षष्टितमः सर्गः – हनूमद्बलसन्धुक्षणम्

67. सप्तषष्टितमः सर्गः – लङ्घनावष्टम्भः