वाल्मीकि रामायणे किष्किन्धकाण्ड - चतुर्थः सर्गः – सुग्रीवसमीपगमनम्

॥ सुग्रीवसमीपगमनम् ॥

ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः ।
श्रुत्वा मधुरसम्भाषं सुग्रीवं मनसा गतः ॥ १ ॥

भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः ।
यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम् ॥ २ ॥

ततः परमसंहृष्टो हनुमान् प्लवगर्षभः ।
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ ३ ॥

किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् ।
आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् ॥ ४ ॥

तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः ।
आचचक्षे महात्मानं रामं दशरथात्मजम् ॥ ५ ॥

राजा दशरथो नाम द्युतिमान् धर्मवत्सलः ।
चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभ्यपालयत् ॥ ६ ॥

न द्वेष्टा विद्यते तस्य न च स द्वेष्टि कञ्चन ।
स च सर्वेषु भूतेषु पितामह इवापरः ॥ ७ ॥

अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ।
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥ ८ ॥

शरण्यः सर्वभूतानां पितुर्निर्देशपारगः ।
वीरो दशरथस्यायं पुत्राणां गुणवत्तमः ॥ ९ ॥

राजलक्षणसम्पन्नः सम्युक्तो राजसम्पदा ।
राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः ॥ १० ॥

भार्यया च महातेजाः सीतयाऽनुगतो वशी ।
दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ ११ ॥

अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ।
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ १२ ॥

सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ।
ऐश्वर्येण च हीनस्य वनवासाश्रितस्य च ॥ १३ ॥

रक्षसाऽपहृता भार्या रहिते कामरूपिणा ।
तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता ॥ १४ ॥

दनुर्नाम दितेः पुत्रः शापाद्राक्षसतां गतः ।
आख्यातस्तेन सुग्रीवः समर्थो वानरर्षभः ॥ १५ ॥

स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् ।
एवमुक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम् ॥ १६ ॥

एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः ।
अहं चैव हि रामश्च सुग्रीवं शरणं गतौ ॥ १७ ॥

एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः ।
लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥ १८ ॥

पिता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः ।
तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः ॥ १९ ॥

सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा ।
गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः ॥ २० ॥

यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः ।
स रामो वानरेन्दस्य प्रसादमभिकाङ्क्षते ॥ २१ ॥

येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः ।
मानिताः सततं राज्ञा सदा दशरथेन वै ॥ २२ ॥

तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः ।
सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः ॥ २३ ॥

शोकाभिभूते रामे तु शोकार्ते शरणं गते ।
कर्तुमर्हति सुग्रीवः प्रसादं हरियूथपः ॥ २४ ॥

एवं ब्रुवाणं सौमित्रिं करुणं साश्रुलोचनम् ।
हनुमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ २५ ॥

ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः ।
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ॥ २६ ॥

स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना ।
हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ॥ २७ ॥

करिष्यति स साहाय्यं युवयोर्भास्करात्मजः ।
सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥ २८ ॥

इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा ।
बभाषे सोऽभिगच्छेम सुग्रीवमिति राघवम् ॥ २९ ॥

एवं ब्रुवाणं धर्मात्मा हनुमन्तं स लक्ष्मणः ।
प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥ ३० ॥

कपिः कथयते हृष्टो यथाऽयं मारुतात्मजः ।
कृत्यवान् सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव ॥ ३१ ॥

प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते ।
नानृतं वक्ष्यते धीरो हनुमान् मारुतात्मजः ॥ ३२ ॥

ततः स तु महाप्राज्ञो हनुमान्मारुतात्मजः ।
जगामादाय तौ वीरौ हरिराजाय राघवौ ॥ ३३ ॥

भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः ।
पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥ ३४ ॥

स तु विपुलयशाः कपिप्रवीरः
पवनसुतः कृतकृत्यवत्प्रहृष्टः ।
गिरिवरमुरुविक्रमः प्रयातः
सुशुभमतिः सह रामलक्ष्मणाभ्याम् ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्थः सर्गः ॥ ४ ॥

<< 3. तृतीयः सर्गः – हनूमत्प्रेषणम् 5. पञ्चमः सर्गः – सुग्रीवसख्यम् >>

1. प्रथमः सर्गः – रामविप्रलम्भावेशः

2. द्वितीयः सर्गः – सुग्रीवमन्त्रः

3. तृतीयः सर्गः – हनूमत्प्रेषणम्

4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्

5. पञ्चमः सर्गः – सुग्रीवसख्यम्

6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्

7. सप्तमः सर्गः – रामसमाश्वासनम्

8. अष्टमः सर्गः – वालिवधप्रतिज्ञा

9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः

10. दशमः सर्गः – राज्यनिर्वासकथनम्

11. एकादशः सर्गः – वालिबलाविष्करणम्

12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्

13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः

14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्

15. पञ्चदशः सर्गः – ताराहितोक्तिः

16. षोडशः सर्गः – वालिसंहारः

17. सप्तदशः सर्गः – रामाधिक्षेपः

18. अष्टादशः सर्गः – वालिवधसमर्थनम्

19. एकोनविंशः सर्गः – तारागमनम्

20. विंशः सर्गः – ताराविलापः

21. एकविंशः सर्गः – हनुमदाश्वासनम्

22. द्वाविंशः सर्गः – वाल्यनुशासनम्

23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्

24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्

25. पञ्चविंशः सर्गः – वालिसंस्कारः

26. षड्विंशः सर्गः – सुग्रीवाभिषेकः

27. सप्तविंशः सर्गः – माल्यवन्निवासः

28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्

29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्

30. त्रिंशः सर्गः – शरद्वर्णनम्

31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः

32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः

33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्

34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्

35. पञ्चत्रिंशः सर्गः – तारासमाधानम्

36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः

37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्

38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्

39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः

40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्

41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्

42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्

43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्

44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः

45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा

46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्

47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्

48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः

49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः

50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः

51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्

52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्

53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः

54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्

55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः

56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः

57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्

58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः

59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः

60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्

61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्

62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्

63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः

64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्

65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्

66. षट्षष्टितमः सर्गः – हनूमद्बलसन्धुक्षणम्

67. सप्तषष्टितमः सर्गः – लङ्घनावष्टम्भः