॥ वालिवधप्रतिज्ञा ॥
परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः ।
लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ॥ १ ॥
सर्वथाऽहमनुग्राह्यो देवतानामसंशयः ।
उपपन्नगुणोपेतः सखा यस्य भवान्मम ॥ २ ॥
शक्यं खलु भवेद्राम सहायेन त्वयाऽनघ ।
सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो ॥ ३ ॥
सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव ।
यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् ॥ ४ ॥
अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः ।
न तु वक्तुं समर्थोऽहं स्वयमात्मगतान् गुणान् ॥ ५ ॥
महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् ।
निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव ॥ ६ ॥
रजतं वा सुवर्णं वा वस्त्राण्याभरणानि च ।
अविभक्तानि साधूनामवगच्छन्ति साधवः ॥ ७ ॥
आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा ।
निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥ ८ ॥
धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः ।
वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ॥ ९ ॥
तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् ।
लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥ १० ॥
ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् ।
सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् ॥ ११ ॥
स ददर्श ततः सालमविदूरे हरीश्वरः ।
सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् ॥ १२ ॥
तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् ।
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥ १३ ॥
तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् ।
सालशाखां समुत्पाट्य वीनीतमुपवेशयत् ॥ १४ ॥
सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा ।
फलपुष्पसमाकीर्णे तस्मिन् गिरिवरोत्तमे ॥ १५ ॥
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा ।
उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् ॥ १६ ॥
अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः ।
ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः ॥ १७ ॥
सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः ।
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ १८ ॥
वालिनो मे भयार्तस्य सर्वलोकभयङ्कर ।
ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥ १९ ॥
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ।
प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ॥ २० ॥
उपकारफलं मित्रमपकारोऽरिलक्षणम् ।
अद्यैव तं हनिष्यामि तव भार्यापहारिणम् ॥ २१ ॥
इमे हि मे महावेगाः पत्रिणस्तिग्मतेजसः ।
कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः ॥ २२ ॥
कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः ।
सुपर्वाणः सुतीक्ष्णाग्राः सरोषा इव पन्नगाः ॥ २३ ॥
भ्रातृसञ्ज्ञममित्रं ते वालिनं कृतकिल्बिषम् ।
शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ॥ २४ ॥
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ २५ ॥
राम शोकाभिभूतोऽहं शोकार्तानां भवान् गतिः ।
वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ॥ २६ ॥
त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम् ।
कृतः प्राणैर्बहुमतः सत्येनापि शपामि ते ॥ २७ ॥
वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्यहम् ।
दुःखमन्तर्गतं यन्मे मनो हरति नित्यशः ॥ २८ ॥
एतावदुक्त्वा वचनं बाष्पदूषितलोचनः ।
बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम् ॥ २९ ॥
बाष्पवेगं तु सहसा नदीवेगमिवागतम् ।
धारयामास धैर्येण सुग्रीवो रामसन्निधौ ॥ ३० ॥
स निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे ।
विनिःश्वस्य च तेजस्वी राघवं वाक्यमब्रवीत् ॥ ३१ ॥
पुराहं वालिना राम राज्यात् स्वादवरोपितः ।
परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा ॥ ३२ ॥
हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी ।
सुहृदश्च मदीया ये सम्यता बन्धनेषु ते ॥ ३३ ॥
यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव ।
बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ॥ ३४ ॥
शङ्कया त्वेतया चेह दृष्ट्वा त्वामपि राघव ।
नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ॥ ३५ ॥
केवलं हि सहाया मे हनूमत्प्रमुखास्त्विमे ।
अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन् ॥ ३६ ॥
एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः ।
सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते ॥ ३७ ॥
सङ्क्षेपस्त्वेष ते राम किमुक्त्वा विस्तरं हि ते ।
स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः ॥ ३८ ॥
तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् ।
सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् ॥ ३९ ॥
एष मे राम शोकान्तः शोकार्तेन निवेदितः ।
दुःखितः सुखितो वाऽपि सख्युर्नित्यं सखा गतिः ॥ ४० ॥
श्रुत्वैतद्वचनं रामः सुग्रीवमिदमब्रवीत् ।
किं निमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ॥ ४१ ॥
अहं हि कारणं श्रुत्वा वैरस्य तव वानर । [सुखं]
आनन्तर्यं विधास्यामि सम्प्रधार्य बलाबलम् ॥ ४२ ॥
बलवान् हि ममामर्षः श्रुत्वा त्वामवमानितम् ।
वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः ॥ ४३ ॥
हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः ।
सृष्टश्चेद्धि मया बाणो निरस्तश्च रिपुस्तव ॥ ४४ ॥
एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना ।
प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः ॥ ४५ ॥
ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे ।
वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ॥ ४६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टमः सर्गः ॥ ८ ॥
<< 7. सप्तमः सर्गः – रामसमाश्वासनम् 9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः >>1. प्रथमः सर्गः – रामविप्रलम्भावेशः
2. द्वितीयः सर्गः – सुग्रीवमन्त्रः
3. तृतीयः सर्गः – हनूमत्प्रेषणम्
4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्
5. पञ्चमः सर्गः – सुग्रीवसख्यम्
6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्
7. सप्तमः सर्गः – रामसमाश्वासनम्
8. अष्टमः सर्गः – वालिवधप्रतिज्ञा
9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः
10. दशमः सर्गः – राज्यनिर्वासकथनम्
11. एकादशः सर्गः – वालिबलाविष्करणम्
12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्
13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः
14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्
15. पञ्चदशः सर्गः – ताराहितोक्तिः
17. सप्तदशः सर्गः – रामाधिक्षेपः
18. अष्टादशः सर्गः – वालिवधसमर्थनम्
19. एकोनविंशः सर्गः – तारागमनम्
21. एकविंशः सर्गः – हनुमदाश्वासनम्
22. द्वाविंशः सर्गः – वाल्यनुशासनम्
23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्
24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्
25. पञ्चविंशः सर्गः – वालिसंस्कारः
26. षड्विंशः सर्गः – सुग्रीवाभिषेकः
27. सप्तविंशः सर्गः – माल्यवन्निवासः
28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्
29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्
30. त्रिंशः सर्गः – शरद्वर्णनम्
31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः
32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः
33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्
34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्
35. पञ्चत्रिंशः सर्गः – तारासमाधानम्
36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः
37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्
38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्
39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः
40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्
41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्
42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्
43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्
44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः
45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा
46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्
47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्
48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः
49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः
50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः
51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्
52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्
53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः
54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्
55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः
56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः
57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्
58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः
59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः
60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्
61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्
62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्
63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः
64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्
65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्