॥ वालिसंहारः ॥
तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् ।
वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ॥ १ ॥
गर्जतोऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः ।
मर्षयिष्याम्यहं केन कारणेन वरानने ॥ २ ॥
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् ।
धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ ३ ॥
सोढुं न च समर्थोऽहं युद्धकामस्य सम्युगे ।
सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः ॥ ४ ॥
न च कार्यो विषादस्ते राघवं प्रति मत्कृते ।
धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥ ५ ॥
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि ।
सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया ॥ ६ ॥
प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् ।
दर्पमात्रं विनेष्यामि न च प्राणैर्विमोक्ष्यते ॥ ७ ॥
अहं ह्याजिस्थितस्यास्य करिष्यामि यथेप्सितम् ।
वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥ ८ ॥
न मे गर्वितमायस्तं सहिष्यति दुरात्मवान् ।
कृतं तारे सहायत्वं सौहृदं दर्शितं मयि ॥ ९ ॥
शापितासि मम प्राणैर्निवर्तस्व जनेन च ।
अहं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे ॥ १० ॥
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी ।
चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥ ११ ॥
ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी ।
अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ १२ ॥
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् ।
नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् ॥ १३ ॥
स निष्पत्य महातेजा वाली परमरोषणः ।
सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया ॥ १४ ॥
स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् ।
सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥ १५ ॥
स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् ।
गाढं परिदधे वासो वाली परमरोषणः ॥ १६ ॥
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् ।
सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः ॥ १७ ॥
श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः ।
सुग्रीवोऽपि तमुद्दिश्य वालिनं हेममालिनम् ॥ १८ ॥
तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् ।
आपतन्तं महावेगमिदं वचनमब्रवीत् ॥ १९ ॥
एष मुष्टिर्मया बद्धो गाढः सन्निहिताङ्गुलिः ।
मया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥ २० ॥
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् ।
तव चैव हरन् प्राणान् मुष्टिः पततु मूर्धनि ॥ २१ ॥
ताडितस्तेन सङ्क्रुद्धस्तमभिक्रम्य वेगितः ।
अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः ॥ २२ ॥
सुग्रीवेण तु निस्सङ्गं सालमुत्पाट्य तेजसा ।
गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः ॥ २३ ॥
स तु वाली प्रचलितः सालताडनविह्वलः ।
गुरुभारसमाक्रान्तो नौसार्थ इव सागरे ॥ २४ ॥
तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ ।
प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे ॥ २५ ॥
परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ ।
ततोऽवर्धत वाली तु बलवीर्यसमन्वितः ॥ २६ ॥
सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयते ।
वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः ॥ २७ ॥
वालिनं प्रति सामर्षो दर्शयामास राघवम् ।
वृक्षैः सशाखैः सशिखैर्वज्रकोटिनिभैर्नखैः ॥ २८ ॥
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः ।
तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ॥ २९ ॥
तौ शोणिताक्तौ युद्ध्येतां वानरौ वनचारिणौ ।
मेघाविव महाशब्दैस्तर्जयानौ परस्परम् ॥ ३० ॥
हीयमानमथोऽपश्यत्सुग्रीवं वानरेश्वरम् ।
प्रेक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ॥ ३१ ॥
ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम् ।
शरं च वीक्षते वीरो वालिनो वधकारणात् ॥ ३२ ॥
ततो धनुषि सन्धाय शरमाशीविषोपमम् ।
पूरयामास तच्चापं कालचक्रमिवान्तकः ॥ ३३ ॥
तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः ।
प्रदुद्रुवुर्मृगाश्चैव युगान्त इव मोहिताः ॥ ३४ ॥
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः ।
राघवेण महाबाणो वालिवक्षसि पातितः ॥ ३५ ॥
ततस्तेन महातेजा वीर्योत्सिक्तः कपीश्वरः ।
वेगेनाभिहतो वाली निपपात महीतले ॥ ३६ ॥
इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतेले ।
आश्वयुक्समये मासि गतश्रीको विचेतनः ॥ ३७ ॥
नरोत्तमः कालयुगान्तकोपमं
शरोत्तमं काञ्चनरूप्यभूषितम् ।
ससर्ज दीप्तं तममित्रमर्दनं
सधूममग्निं मुखतो यथा हरः ॥ ३८ ॥
अथोक्षितः शोणिततोयविस्रवैः
सुपुष्पिताशोक इवानलोद्धतः ।
विचेतनो वासवसूनुराहवे
विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ॥ ३९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षोडशः सर्गः ॥ १६ ॥
<< 15. पञ्चदशः सर्गः – ताराहितोक्तिः 17. सप्तदशः सर्गः – रामाधिक्षेपः >>1. प्रथमः सर्गः – रामविप्रलम्भावेशः
2. द्वितीयः सर्गः – सुग्रीवमन्त्रः
3. तृतीयः सर्गः – हनूमत्प्रेषणम्
4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्
5. पञ्चमः सर्गः – सुग्रीवसख्यम्
6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्
7. सप्तमः सर्गः – रामसमाश्वासनम्
8. अष्टमः सर्गः – वालिवधप्रतिज्ञा
9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः
10. दशमः सर्गः – राज्यनिर्वासकथनम्
11. एकादशः सर्गः – वालिबलाविष्करणम्
12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्
13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः
14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्
15. पञ्चदशः सर्गः – ताराहितोक्तिः
16. षोडशः सर्गः – वालिसंहारः
17. सप्तदशः सर्गः – रामाधिक्षेपः
18. अष्टादशः सर्गः – वालिवधसमर्थनम्
19. एकोनविंशः सर्गः – तारागमनम्
21. एकविंशः सर्गः – हनुमदाश्वासनम्
22. द्वाविंशः सर्गः – वाल्यनुशासनम्
23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्
24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्
25. पञ्चविंशः सर्गः – वालिसंस्कारः
26. षड्विंशः सर्गः – सुग्रीवाभिषेकः
27. सप्तविंशः सर्गः – माल्यवन्निवासः
28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्
29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्
30. त्रिंशः सर्गः – शरद्वर्णनम्
31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः
32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः
33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्
34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्
35. पञ्चत्रिंशः सर्गः – तारासमाधानम्
36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः
37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्
38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्
39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः
40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्
41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्
42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्
43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्
44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः
45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा
46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्
47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्
48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः
49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः
50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः
51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्
52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्
53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः
54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्
55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः
56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः
57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्
58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः
59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः
60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्
61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्
62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्
63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः
64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्
65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्