॥ बिलप्रवेशकारणकथनम् ॥
अथ तानब्रवीत्सर्वान् विक्रान्तान् हरिपुङ्गवान् ।
इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥ १ ॥
वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् ।
यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ॥ २ ॥
तस्यास्तद्वचनं श्रुत्वा हनुमान् मारुतात्मजः ।
आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥ ३ ॥
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥ ४ ॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥ ५ ॥
वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः ।
राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ ६ ॥
अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् ।
सहैभिर्वानरैर्घोरैरङ्गदप्रमुखैर्वयम् ॥ ७ ॥
रावणं सहिताः सर्वे राक्षसं कामरूपिणम् ।
सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥ ८ ॥
विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् ।
बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः ॥ ९ ॥
विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः ।
नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे ॥ १० ॥
चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम् ।
लतापादपसञ्छन्नं तिमिरेण समावृतम् ॥ ११ ॥
अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलविस्रवैः ।
कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः ॥ १२ ॥
साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ।
तेषामपि हि सर्वेषामनुमानमुपागतम् ॥ १३ ॥
गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः ।
ततो गाढं निपतिता गृह्य हस्तौ परस्परम् ॥ १४ ॥
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ।
एतन्नः कार्यमेतेन कृत्येन वयमागताः ॥ १५ ॥
त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः ।
आतिथ्यधर्मदत्तानि मूलानि च फलानि च ॥ १६ ॥
अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः ।
यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ॥ १७ ॥
ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ।
एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयम्प्रभा ॥ १८ ॥
प्रत्युवाच ततः सर्वानिदं वानरयूथपान् ।
सर्वेषां परितुष्टाऽस्मि वानराणां तरस्विनाम् ।
चरन्त्या मम धर्मेण न कार्यमिह केनचित् ॥ १९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥
<< 51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम् 53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः >>1. प्रथमः सर्गः – रामविप्रलम्भावेशः
2. द्वितीयः सर्गः – सुग्रीवमन्त्रः
3. तृतीयः सर्गः – हनूमत्प्रेषणम्
4. चतुर्थः सर्गः – सुग्रीवसमीपगमनम्
5. पञ्चमः सर्गः – सुग्रीवसख्यम्
6. षष्ठः सर्गः – भूषणप्रत्यभिज्ञानम्
7. सप्तमः सर्गः – रामसमाश्वासनम्
8. अष्टमः सर्गः – वालिवधप्रतिज्ञा
9. नवमः सर्गः – वैरवृत्तान्तानुक्रमः
10. दशमः सर्गः – राज्यनिर्वासकथनम्
11. एकादशः सर्गः – वालिबलाविष्करणम्
12. द्वादशः सर्गः – सुग्रीवप्रत्ययदानम्
13. त्रयोदशः सर्गः – सप्तजनाश्रमप्रणामः
14. चतुर्दशः सर्गः – सुग्रीवगर्जनम्
15. पञ्चदशः सर्गः – ताराहितोक्तिः
17. सप्तदशः सर्गः – रामाधिक्षेपः
18. अष्टादशः सर्गः – वालिवधसमर्थनम्
19. एकोनविंशः सर्गः – तारागमनम्
21. एकविंशः सर्गः – हनुमदाश्वासनम्
22. द्वाविंशः सर्गः – वाल्यनुशासनम्
23. त्रयोविंशः सर्गः – अङ्गदाभिवादनम्
24. चतुर्विंशः सर्गः – सुग्रीवताराश्वासनम्
25. पञ्चविंशः सर्गः – वालिसंस्कारः
26. षड्विंशः सर्गः – सुग्रीवाभिषेकः
27. सप्तविंशः सर्गः – माल्यवन्निवासः
28. अष्टाविंशः सर्गः – प्रावृडुज्जृम्भणम्
29. एकोनत्रिंशः सर्गः – हनुमत्प्रतिबोधनम्
30. त्रिंशः सर्गः – शरद्वर्णनम्
31. एकत्रिंशः सर्गः – लक्ष्मणक्रोधः
32. द्वात्रिंशः सर्गः – हनूमन्मन्त्रः
33. त्रयोस्त्रिंशः सर्गः – तारासान्त्ववचनम्
34. चतुस्त्रिंशः सर्गः – सुग्रीवतर्जनम्
35. पञ्चत्रिंशः सर्गः – तारासमाधानम्
36. षट्त्रिंशः सर्गः – सुग्रीवलक्ष्मणानुरोधः
37. सप्तत्रिंशः सर्गः – कपिसेनासमानयनम्
38. अष्टात्रिंशः सर्गः – रामसमीपगमनम्
39. एकोनचत्वारिंशः सर्गः – सेनानिवेशः
40. चत्वारिंशः सर्गः – प्राचीप्रेषणम्
41. एकचत्वारिंशः सर्गः – दक्षिणाप्रेषणम्
42. द्विचत्वारिंशः सर्गः – प्रतीचीप्रेषणम्
43. त्रिचत्वारिंशः सर्गः – उदीचीप्रेषणम्
44. चतुश्चत्वारिंशः सर्गः – हनूमत्सन्देशः
45. पञ्चचत्वारिंशः सर्गः – वानरबलप्रतिष्ठा
46. षट्चत्वारिंशः सर्गः – भूमण्डलभ्रमणकथनम्
47. सप्तचत्वारिंशः सर्गः – कपिसेनाप्रत्यागमनम्
48. अष्टचत्वारिंशः सर्गः – कण्डूवनादिविचयः
49. एकोनपञ्चाशः सर्गः – रजतपर्वतविचयः
50. पञ्चाशः सर्गः – ऋक्षबिलप्रवेशः
51. एकपञ्चाशः सर्गः – स्वयम्प्रभातिथ्यम्
52. द्विपञ्चाशः सर्गः – बिलप्रवेशकारणकथनम्
53. त्रिपञ्चाशः सर्गः – अङ्गदादिनिर्वेदः
54. चतुःपञ्चाशः सर्गः – हनूमद्भेदनम्
55. पञ्चपञ्चाशः सर्गः – प्रायोपवेशः
56. षट्पञ्चाशः सर्गः – सम्पातिप्रश्नः
57. सप्तपञ्चाशः सर्गः – जटायुर्दिष्टकथनम्
58. अष्टपञ्चाशः सर्गः – सीताप्रवृत्त्युपलम्भः
59. एकोनषष्टितमः सर्गः – सुपार्श्ववचनानुवादः
60. षष्टितमः सर्गः – सम्पातिपुरावृत्तवर्णनम्
61. एकषष्टितमः सर्गः – सूर्यानुगमनाख्यानम्
62. द्विषष्टितमः सर्गः – निशाकरभविष्याख्यानम्
63. त्रिषष्टितमः सर्गः – सम्पातिपक्षप्ररोहः
64. चतुःषष्टितमः सर्गः – समुद्रलङ्घनमन्त्रणम्
65. पञ्चषष्टितमः सर्गः – बलेयत्ताविष्करणम्