वाल्मीकि रामायणे अयोध्याकाण्ड - पञ्चपञ्चाशः सर्गः – यमुनातरणम्

॥ यमुनातरणम् ॥

उषित्वा रजनीं तत्र राजपुत्रावरिन्दमौ ।
महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ॥ १ ॥

तेषां चैव स्वस्त्ययनं महर्षिः स चकार ह ।
प्रस्थितांश्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥ २ ॥

ततः प्रचक्रमे वक्तुं वचनं स महामुनिः ।
भरद्वाजो महातेजाः रामं सत्यपराक्रमम् ॥ ३ ॥

गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ ।
कालिन्दीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम् ॥ ४ ॥

अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् ।
तस्यास्तीर्थं प्रचरितं पुराणं प्रेक्ष्य राघवौ ॥ ५ ॥

तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् ।
ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ॥ ६ ॥

विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम् ।
तस्मै सीताऽञ्जलिं कृत्वा प्रयुञ्जीताशिषः शिवाः ॥ ७ ॥

समासाद्य तु तं वृक्षं वसेद्वाऽतिक्रमेत वा ।
क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ॥ ८ ॥

पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनैः ।
स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥ ९ ॥

रम्यो मार्दवयुक्तश्च वनदावैर्विपर्जितः ।
इति पन्थानमावेद्य महर्षिः संन्यवर्ततः ॥ १० ॥

अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ।
उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥ ११ ॥

कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ।
इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥ १२ ॥

सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम् ।
अथाऽसाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम् ॥ १३ ॥

तौ काष्ठसङ्घाटमथो चक्रतुस्सुमहाप्लवम् ॥ १४ ॥

शुष्कैर्वंशैः समास्तीर्णमुशीरैश्च समावृतम् ।
ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥ १५ ॥

चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ।
तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् ॥ १६ ॥

ईषत्संलज्जमानां तामध्यारोपयत प्लवम् ।
पार्श्वे च तत्र वैदेह्या वसने भूषणानि च ॥ १७ ॥

प्लवे कठिनकाजं च रामश्चक्रे सहायुधैः ।
आरोप्य प्रथमं सीतां सङ्घाटं प्रतिगृह्य तौ ॥ १८ ॥

ततः प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ ।
कालिन्दीमध्यमायाता सीता त्वेनामवन्दत ॥ १९ ॥

स्वस्ति देवि तरामि त्वां पारयेन्मे पतिर्र्वतम् ।
यक्ष्ये त्वां गोनहस्रेण सुराघटशतेन च ॥ २० ॥

स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ।
कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥ २१ ॥

तीरमेवाभिसम्प्राप्ता दक्षिणं वरवर्णिनी ।
ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् ॥ २२ ॥

तीरजैर्बहुभिर्वृक्षैः सन्तेरुर्यमुनां नदीम् ।
ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥ २३ ॥

श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम् ।
न्यग्रोधं तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥ २४ ॥

नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिर्व्रतम् ।
कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् ॥ २५ ॥

इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम् ।
अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥ २६ ॥

दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् ।
सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥ २७ ॥ [भरताग्रज]

पृष्ठतोऽहं गमिष्यामि सायुधो द्विपदां वर ।
यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा ॥ २८ ॥

तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः ।
गच्छतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥ २९ ॥

मातङ्गयोर्मध्यगता शुभा नागवधूरिव ।
एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम् ॥ ३० ॥

अदृष्टपूर्वां पश्यन्ती रामं पप्रच्छ साऽबला ।
रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥ ३१ ॥

सीतावचनसंरब्दः आनयामास लक्ष्मणः ।
विचित्रवालुकजलां हंससारसनादिताम् ॥ ३२ ॥

रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ।
क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ ।
बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुना वने ॥ ३३ ॥

विहृत्य ते बर्हिणपूगनादिते
शुभे वने वानरवारणायुते ।
समं नदीवप्रमुपेत्य सम्मतं
निवासमाजग्मु रदीनदर्शनाः ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

<< 54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम् 56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः >>

1. प्रथमः सर्गः – रामाभिषेकव्यवसायः

2. द्वितीयः सर्गः – परिषदनुमोदनम्

3. तृतीयः सर्गः – पुत्रानुशासनम्

4. चतुर्थः सर्गः – मात्राशीःपरिग्रहः

5. पञ्चमः सर्गः – व्रतचर्याविधानम्

6. षष्ठः सर्गः – पौरोत्सेकः

7. सप्तमः सर्गः – मन्थरापरिदेवनम्

8. अष्टमः सर्गः – मन्थरोपजापः

9. नवमः सर्गः – रामप्रवासनोपायचिन्ता

10. दशमः सर्गः – कैकेय्यनुनयः

11. एकादशः सर्गः – वरद्वयनिर्बन्धः

12. द्वादशः सर्गः – कैकेयीनिवर्तनप्रयासः

13. त्रयोदशः सर्गः – दशरथविलापः

14. चतुर्दशः सर्गः – कैकेय्युपालम्भः

15. पञ्चदशः सर्गः – सुमन्त्रप्रेषणम्

16. षोडशः सर्गः – रामप्रस्थानम्

17. सप्तदशः सर्गः – रामागमनम्

18. अष्टादशः सर्गः – वनवासनिदेशः

19. एकोनविंशः सर्गः – रामप्रतिज्ञा

20. विंशः सर्गः – कौसल्याक्रन्दः

21. एकविंशः सर्गः – कौसल्यालक्ष्मणप्रतिबोधनम्

22. द्वाविंशः सर्गः – दैवप्राबल्यम्

23. त्रयोविंशः सर्गः – लक्ष्मणक्रोधः

24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम्

25. पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्

26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम्

27. सप्तविंशः सर्गः – पतिव्रताध्यवसायः

28. अष्टाविंशः सर्गः – वनदुःखप्रतिबोधनम्

29. एकोनत्रिंशः सर्गः – वनगमनविज्ञप्तिः (वनानुगमनयाचनाञानिर्बन्धः)

30. त्रिंशः सर्गः – वनगमनाभ्युपपत्तिः

31. एकत्रिंशः सर्गः – लक्ष्मणवनानुगमनाभ्यनुज्ञा

32. द्वात्रिंशः सर्गः – वित्तविश्राणनम्

33. त्रयोस्त्रिंशः सर्गः – पौरवाक्यम्

34. चतुस्त्रिंशः सर्गः – दशरथसमाश्वासनम्

35. पञ्चत्रिंशः सर्गः – सुमन्त्रगर्हणम्

36. षट्त्रिंशः सर्गः – सिद्धार्थप्रतिबोधनम्

37. सप्तत्रिंशः सर्गः – चीरपरिग्रहनिमित्तवसिष्ठक्रोधः

38. अष्टात्रिंशः सर्गः – जनाक्रोशः

39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा

40. चत्वारिंशः सर्गः – पौराद्यनुव्रज्या

41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः

42. द्विचत्वारिंशः सर्गः – दशरथाक्रन्दः

43. त्रिचत्वारिंशः सर्गः – कौसल्यापरिदेवितम्

44. चतुश्चत्वारिंशः सर्गः – सुमित्राश्वासनम्

45. पञ्चचत्वारिंशः सर्गः – पौरयाचनम्

46. षट्चत्वारिंशः सर्गः – पौरमोहनम्

47. सप्तचत्वारिंशः सर्गः – पौरनिवृत्तिः

48. अष्टचत्वारिंशः सर्गः – पौराङ्गनाविलापः

49. एकोनपञ्चाशः सर्गः – जानपदाक्रोशः

50. पञ्चाशः सर्गः – गुहसङ्गतम्

51. एकपञ्चाशः सर्गः – गुहलक्ष्मणजागरणम्

52. द्विपञ्चाशः सर्गः – गङ्गातरणम्

53. त्रिपञ्चाशः सर्गः – रामसङ्क्षोभः

54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम्

55. पञ्चपञ्चाशः सर्गः – यमुनातरणम्

56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः

57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्

58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्

59. एकोनषष्टितमः सर्गः – दशरथविलापः

60. षष्टितमः सर्गः – कौसल्यासमाश्वासनम्

61. एकषष्टितमः सर्गः – कौसल्योपालम्भः

62. द्विषष्टितमः सर्गः – कौसल्याप्रसादनम्

63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम्

64. चतुःषष्टितमः सर्गः – दशरथदिष्टान्तः

65. पञ्चषष्टितमः सर्गः – अन्तःपुराक्रन्दः

66. षट्षष्टितमः सर्गः – तैलद्रोण्यधिशयनम्

67. सप्तषष्टितमः सर्गः – अराजकदुरवस्थावर्णनम्

68. अष्टषष्टितमः सर्गः – दूतप्रेषणम्

69. एकोनसप्ततितमः सर्गः – भरतदुःस्वप्नः

70. सप्ततितमः सर्गः – भरतप्रस्थानम्

71. एकसप्ततितमः सर्गः – अयोध्यागमनम्

72. द्विसप्ततितमः सर्गः – भरतसन्तापः

73. त्रिसप्ततितमः सर्गः – कैकेयीविगर्हणम्

74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः

75. पञ्चसप्ततितमः सर्गः – भरतशपथः

76. षट्सप्ततितमः सर्गः – दशरथौर्ध्वदैहिकम्

77. सप्तसप्ततितमः सर्गः – भरतशत्रुघ्नविलापः

78. अष्टसप्ततितमः सर्गः – कुब्जाविक्षेपः

79. एकोनाशीतितमः सर्गः – सचिवप्रार्थनाप्रतिषेधः

80. अशीतितमः सर्गः – मार्गसंस्कारः

81. एकाशीतितमः सर्गः – सभास्तानम्

82. द्वयशीतितमः सर्गः – सेनाप्रस्थापनम्

83. त्र्यशीतितमः सर्गः – भरतवनप्रस्थानम्

84. चतुरशीतितमः सर्गः – गुहागमनम्

85. पञ्चाशीतितमः सर्गः – गुहसमागमः

86. षडशीतितमः सर्गः – गुहवाक्यम्

87. सप्ताशीतितमः सर्गः – रामशयनादिप्रश्नः

88. अष्टाशीतितमः सर्गः – शय्यानुवीक्षणम्

89. एकोननवतितमः सर्गः – गङ्गातरणम्

90. नवतितमः सर्गः – भरद्वाजाश्रमनिवासः

91. एकनवतितमः सर्गः – भरद्वाजातिथ्यम्

92. द्विनवतितमः सर्गः – भरद्वाजामन्त्रणम्

93. त्रिनवतितमः सर्गः – चित्रकूटवनप्रेक्षणम्

94. चतुर्नवतितमः सर्गः – चित्रकूटवर्णना

95. पञ्चनवतितमः सर्गः – मन्दाकिनीवर्णना

96. षण्णवतितमः सर्गः – लक्ष्मणक्रोधः

97. सप्तनवतितमः सर्गः – भरतगुणप्रशंसा

98. अष्टनवतितमः सर्गः – रामान्वेषणम्

99. एकोनशततमः सर्गः – रामसमागमः

100. शततमः सर्गः – कच्चित्सर्गः

101. एकाधिकशततमः सर्गः – पितृदिष्टान्तश्रवणम्

102. द्व्यधिकशततमः सर्गः – निवापदानम्

103. त्र्यधिकशततमः सर्गः – मातृदर्शनम्

104. चतुरधिकशततमः सर्गः – रामभरतसंवादः

105. पञ्चाधिकशततमः सर्गः – रामवाक्यम्

106. षडधिकशततमः सर्गः – भरतवचनम्

107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम्

108. अष्टाधिकशततमः सर्गः – जाबालिवाक्यम्

109. नवाधिकशततमः सर्गः – सत्यप्रशंसा

110. दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्

111. एकादशाधिकशततमः सर्गः – भरतानुशासनम्

112. द्वादशाधिकशततमः सर्गः – पादुकाप्रदानम्

113. त्रयोदशाधिकशततमः सर्गः – पादुकाग्रहणम्

114. चतुर्दशाधिकशततमः सर्गः – अयोध्याप्रवेशः

115. पञ्चदशाधिकशततमः सर्गः – नन्दिग्रामनिवासः

116. षोडशाधिकशततमः सर्गः – खरविप्रकरणकथनम्

117. सप्तदशाधिकशततमः सर्गः – सीतापातिव्रत्यप्रशंसा

118. अष्टादशाधिकशततमः सर्गः – दिव्यालङ्कारग्रहणम्

119. एकोनविंशत्यधिकशततमः सर्गः – दण्डकारण्यप्रवेशः