॥ कौसल्योपालम्भः ॥
वनं गते धर्मपरे रामे रमयतां वरे ।
कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ॥ १ ॥
यद्यपि त्रिषु लोकेषु प्रथितं ते मयद्यशः ।
सानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥ २ ॥
कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया ।
दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥ ३ ॥
सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता ।
कथमुष्णं च शीतं च मैथिली प्रसहिष्यते ॥ ४ ॥
भुक्त्वाऽशनं विशालाक्षी सूपदं शान्वितं शुभम् ।
वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥ ५ ॥
गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता ।
कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ॥ ६ ॥
महेन्द्रध्वजसङ्काशः क्व नु शेते महाभुजः ।
भुजं परिघसङ्काशमुपधाय महाबलः ॥ ७ ॥
पद्मवर्णं सुकेशान्तं पद्म निश्श्वासमुत्तमम् ।
कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥ ८ ॥
वज्रसारमयं नूनं हृदयं मे न संशयः ।
अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा ॥ ९ ॥
यत्त्वयाऽकरुणं कर्म व्यपोह्य मम बान्धवाः ।
निरस्ताः परिधावन्ति सुखार्हः कृपणा वने ॥ १० ॥
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ।
जह्याद्राज्यं च कोशं च भरतो नोपलक्षयते ॥ ११ ॥
भोजयन्ति किल श्राद्धे केचित्स्वानेव बान्धवान् ।
ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥ १२ ॥
तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः ।
न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥ १३ ॥
ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभाः ।
नाभ्युपैतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः ॥ १४ ॥
एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते ।
भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते ॥ १५ ॥
न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्चति ।
एवमेतन्नरव्याघ्रः परलीढं न मन्यते ॥ १६ ॥
हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः ।
नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥ १७ ॥
तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव ।
नाभिमन्तुमलं रामर्नष्ट सोममिवाध्वरम् ॥ १८ ॥
नैवं विधमसत्कारं राघवो मर्षयिष्यति ।
बलवानिव शार्दूलो वालधेरभिमर्शनम् ॥ १९ ॥
नैतस्य सहिता लोकाः भयं कुर्युर्महामृधे ।
अधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत् ॥ २० ॥
नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः ।
युगान्त इव भूतानि सागरानपि निर्दहेत् ॥ २१ ॥
स तादृशः सिंहबलो वृषभाक्षो नरर्षभः ।
स्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥ २२ ॥
द्विजातिचरितो धर्मः शास्त्रदृष्टः सनातनः ।
यदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥ २३ ॥
गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः ।
तृतीया ज्ञातयो राजन् चतुर्थी नेह विद्यते ॥ २४ ॥
तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः ।
न वनं गन्तुमिच्छामि सर्वथा निहता त्वया ॥ २५ ॥
हतं त्वया राज्यमिदं सराष्ट्रम्
हतस्तथाऽऽत्मा सह मन्त्रिभिश्च ।
हता सपुत्राऽस्मि हताश्च पौराः
सुतश्च भार्या च तव प्रहृष्टौ ॥ २६ ॥
इमां गिरं दारुणशब्दसंश्रिताम्
निशम्य राजाऽपि मुमोह दुःखितः ।
ततः स शोकं प्रविवेश पार्थिवः
स्वदुष्कृतं चापि पुनस्तदा स्मरन् ॥ २७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकषष्ठितमः सर्गः ॥ ६१ ॥
1. प्रथमः सर्गः – रामाभिषेकव्यवसायः
2. द्वितीयः सर्गः – परिषदनुमोदनम्
3. तृतीयः सर्गः – पुत्रानुशासनम्
4. चतुर्थः सर्गः – मात्राशीःपरिग्रहः
5. पञ्चमः सर्गः – व्रतचर्याविधानम्
7. सप्तमः सर्गः – मन्थरापरिदेवनम्
9. नवमः सर्गः – रामप्रवासनोपायचिन्ता
11. एकादशः सर्गः – वरद्वयनिर्बन्धः
12. द्वादशः सर्गः – कैकेयीनिवर्तनप्रयासः
13. त्रयोदशः सर्गः – दशरथविलापः
14. चतुर्दशः सर्गः – कैकेय्युपालम्भः
15. पञ्चदशः सर्गः – सुमन्त्रप्रेषणम्
16. षोडशः सर्गः – रामप्रस्थानम्
18. अष्टादशः सर्गः – वनवासनिदेशः
19. एकोनविंशः सर्गः – रामप्रतिज्ञा
20. विंशः सर्गः – कौसल्याक्रन्दः
21. एकविंशः सर्गः – कौसल्यालक्ष्मणप्रतिबोधनम्
22. द्वाविंशः सर्गः – दैवप्राबल्यम्
23. त्रयोविंशः सर्गः – लक्ष्मणक्रोधः
24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम्
25. पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्
26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम्
27. सप्तविंशः सर्गः – पतिव्रताध्यवसायः
28. अष्टाविंशः सर्गः – वनदुःखप्रतिबोधनम्
29. एकोनत्रिंशः सर्गः – वनगमनविज्ञप्तिः (वनानुगमनयाचनाञानिर्बन्धः)
30. त्रिंशः सर्गः – वनगमनाभ्युपपत्तिः
31. एकत्रिंशः सर्गः – लक्ष्मणवनानुगमनाभ्यनुज्ञा
32. द्वात्रिंशः सर्गः – वित्तविश्राणनम्
33. त्रयोस्त्रिंशः सर्गः – पौरवाक्यम्
34. चतुस्त्रिंशः सर्गः – दशरथसमाश्वासनम्
35. पञ्चत्रिंशः सर्गः – सुमन्त्रगर्हणम्
36. षट्त्रिंशः सर्गः – सिद्धार्थप्रतिबोधनम्
37. सप्तत्रिंशः सर्गः – चीरपरिग्रहनिमित्तवसिष्ठक्रोधः
38. अष्टात्रिंशः सर्गः – जनाक्रोशः
39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा
40. चत्वारिंशः सर्गः – पौराद्यनुव्रज्या
41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः
42. द्विचत्वारिंशः सर्गः – दशरथाक्रन्दः
43. त्रिचत्वारिंशः सर्गः – कौसल्यापरिदेवितम्
44. चतुश्चत्वारिंशः सर्गः – सुमित्राश्वासनम्
45. पञ्चचत्वारिंशः सर्गः – पौरयाचनम्
46. षट्चत्वारिंशः सर्गः – पौरमोहनम्
47. सप्तचत्वारिंशः सर्गः – पौरनिवृत्तिः
48. अष्टचत्वारिंशः सर्गः – पौराङ्गनाविलापः
49. एकोनपञ्चाशः सर्गः – जानपदाक्रोशः
50. पञ्चाशः सर्गः – गुहसङ्गतम्
51. एकपञ्चाशः सर्गः – गुहलक्ष्मणजागरणम्
52. द्विपञ्चाशः सर्गः – गङ्गातरणम्
53. त्रिपञ्चाशः सर्गः – रामसङ्क्षोभः
54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम्
55. पञ्चपञ्चाशः सर्गः – यमुनातरणम्
56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः
57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्
58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्
59. एकोनषष्टितमः सर्गः – दशरथविलापः
60. षष्टितमः सर्गः – कौसल्यासमाश्वासनम्
61. एकषष्टितमः सर्गः – कौसल्योपालम्भः
62. द्विषष्टितमः सर्गः – कौसल्याप्रसादनम्
63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम्
64. चतुःषष्टितमः सर्गः – दशरथदिष्टान्तः
65. पञ्चषष्टितमः सर्गः – अन्तःपुराक्रन्दः
66. षट्षष्टितमः सर्गः – तैलद्रोण्यधिशयनम्
67. सप्तषष्टितमः सर्गः – अराजकदुरवस्थावर्णनम्
68. अष्टषष्टितमः सर्गः – दूतप्रेषणम्
69. एकोनसप्ततितमः सर्गः – भरतदुःस्वप्नः
70. सप्ततितमः सर्गः – भरतप्रस्थानम्
71. एकसप्ततितमः सर्गः – अयोध्यागमनम्
72. द्विसप्ततितमः सर्गः – भरतसन्तापः
73. त्रिसप्ततितमः सर्गः – कैकेयीविगर्हणम्
74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः
75. पञ्चसप्ततितमः सर्गः – भरतशपथः
76. षट्सप्ततितमः सर्गः – दशरथौर्ध्वदैहिकम्
77. सप्तसप्ततितमः सर्गः – भरतशत्रुघ्नविलापः
78. अष्टसप्ततितमः सर्गः – कुब्जाविक्षेपः
79. एकोनाशीतितमः सर्गः – सचिवप्रार्थनाप्रतिषेधः
80. अशीतितमः सर्गः – मार्गसंस्कारः
81. एकाशीतितमः सर्गः – सभास्तानम्
82. द्वयशीतितमः सर्गः – सेनाप्रस्थापनम्
83. त्र्यशीतितमः सर्गः – भरतवनप्रस्थानम्
84. चतुरशीतितमः सर्गः – गुहागमनम्
85. पञ्चाशीतितमः सर्गः – गुहसमागमः
86. षडशीतितमः सर्गः – गुहवाक्यम्
87. सप्ताशीतितमः सर्गः – रामशयनादिप्रश्नः
88. अष्टाशीतितमः सर्गः – शय्यानुवीक्षणम्
89. एकोननवतितमः सर्गः – गङ्गातरणम्
90. नवतितमः सर्गः – भरद्वाजाश्रमनिवासः
91. एकनवतितमः सर्गः – भरद्वाजातिथ्यम्
92. द्विनवतितमः सर्गः – भरद्वाजामन्त्रणम्
93. त्रिनवतितमः सर्गः – चित्रकूटवनप्रेक्षणम्
94. चतुर्नवतितमः सर्गः – चित्रकूटवर्णना
95. पञ्चनवतितमः सर्गः – मन्दाकिनीवर्णना
96. षण्णवतितमः सर्गः – लक्ष्मणक्रोधः
97. सप्तनवतितमः सर्गः – भरतगुणप्रशंसा
98. अष्टनवतितमः सर्गः – रामान्वेषणम्
99. एकोनशततमः सर्गः – रामसमागमः
100. शततमः सर्गः – कच्चित्सर्गः
101. एकाधिकशततमः सर्गः – पितृदिष्टान्तश्रवणम्
102. द्व्यधिकशततमः सर्गः – निवापदानम्
103. त्र्यधिकशततमः सर्गः – मातृदर्शनम्
104. चतुरधिकशततमः सर्गः – रामभरतसंवादः
105. पञ्चाधिकशततमः सर्गः – रामवाक्यम्
106. षडधिकशततमः सर्गः – भरतवचनम्
107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम्
108. अष्टाधिकशततमः सर्गः – जाबालिवाक्यम्
109. नवाधिकशततमः सर्गः – सत्यप्रशंसा
110. दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्
111. एकादशाधिकशततमः सर्गः – भरतानुशासनम्
112. द्वादशाधिकशततमः सर्गः – पादुकाप्रदानम्
113. त्रयोदशाधिकशततमः सर्गः – पादुकाग्रहणम्
114. चतुर्दशाधिकशततमः सर्गः – अयोध्याप्रवेशः
115. पञ्चदशाधिकशततमः सर्गः – नन्दिग्रामनिवासः
116. षोडशाधिकशततमः सर्गः – खरविप्रकरणकथनम्
117. सप्तदशाधिकशततमः सर्गः – सीतापातिव्रत्यप्रशंसा