॥ भरतवचनम् ॥
एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।
ततो मन्दाकिनी तीरे रामं प्रकृतिवत्सलम् ।
उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥ १ ॥
को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।
न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् ॥ २ ॥
सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ।
यथा मृतस्तथा जीवन् यथाऽसति तथा सति ॥ ३ ॥
यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः ।
परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप ॥ ४ ॥
सैवं व्यसनं प्राप्य न विषीदितुमर्हति ।
अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गरः ॥ ५ ॥
सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव ।
न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् ॥ ६ ॥
अविषह्यतमं दुःखमासादयितुमर्हति ।
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ॥ ७ ॥
क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ।
धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् ॥ ८ ॥
हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ।
कथं दशरथाज्जातः शुद्धाभिजनकर्मणः ॥ ९ ॥
जानन् धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् ।
गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति च ॥ १० ॥
तातं न परिगर्हेयं दैवतं चेति संसदि ।
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ॥ ११ ॥
स्त्रियाः प्रियं चिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित् ।
अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ॥ १२ ॥
राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ।
साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् ॥ १३ ॥
तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ।
पितुर्हि यदतिक्रान्तं पुत्रो यस्साधु मन्यते ॥ १४ ॥
तदपत्यं मतं लोके विपरीतमतोऽन्यथा ।
अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ १५ ॥
कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः ।
पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ॥ १६ ॥
क्व चारण्यं क्व च क्षात्त्रं क्व जटाः क्व च पालनम् ।
ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ १७ ॥
एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् ।
येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ १८ ॥
कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।
आयतिस्थं चरेद्धर्मं क्षत्त्रबन्धुरनिश्चितम् ॥ १९ ॥
अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।
धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥ २० ॥
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।
प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ २१ ॥
श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् ।
स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ २२ ॥
हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् ।
भवता च विनाभूतो न वर्तयितुमुत्सहे ॥ २३ ॥
इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् ।
अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः ॥ २४ ॥
इहैव त्वाऽभिषिञ्चन्तु सर्वाः प्रकृतयः सह ।
ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः ॥ २५ ॥
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।
विजित्य तरसा लोकान् मरुद्भिरिव वासवः ॥ २६ ॥
ऋणानि त्रीण्यपाकुर्वन् दुर्हृदः साधु निर्दहन् ।
सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ॥ २७ ॥
अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने ।
अद्य भीताः पलायन्तां दुर्हृदस्ते दिशो दश ॥ २८ ॥
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।
अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ २९ ॥
शिरसा त्वाऽभियाचेऽहं कुरुष्व करुणां मयि ।
बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥ ३० ॥
अथैतत् पृष्ठतः कृत्वा वनमेव भवानितः ।
गमिष्यति गमिष्यामि भवता सार्धमप्यहम् ॥ ३१ ॥
तथा हि रामो भरतेन ताम्यता
प्रसाद्यमानः शिरसा महीपतिः ।
न चैव चक्रे गमनाय सत्त्ववान्
मतिं पितुस्तद्वचने व्यवस्थितः ॥ ३२ ॥
तदद्भुतं स्थैर्यमवेक्ष्य राघवे
समं जनो हर्षमवाप दुःखितः ।
न यात्ययोध्यामिति दुःखितोऽभवत्
स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ॥ ३३ ॥
तमृत्विजो नैगमयूथवल्लभाः
तदा विसञ्ज्ञाश्रुकलाश्च मातरः ।
तथा ब्रुवाणं भरतं प्रतुष्टुवुः
प्रणम्य रामं च ययाचिरे सह ॥ ३५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षडुत्तरशततमः सर्गः ॥ १०६ ॥
<< 105. पञ्चाधिकशततमः सर्गः – रामवाक्यम् 107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम् >>1. प्रथमः सर्गः – रामाभिषेकव्यवसायः
2. द्वितीयः सर्गः – परिषदनुमोदनम्
3. तृतीयः सर्गः – पुत्रानुशासनम्
4. चतुर्थः सर्गः – मात्राशीःपरिग्रहः
5. पञ्चमः सर्गः – व्रतचर्याविधानम्
7. सप्तमः सर्गः – मन्थरापरिदेवनम्
9. नवमः सर्गः – रामप्रवासनोपायचिन्ता
11. एकादशः सर्गः – वरद्वयनिर्बन्धः
12. द्वादशः सर्गः – कैकेयीनिवर्तनप्रयासः
13. त्रयोदशः सर्गः – दशरथविलापः
14. चतुर्दशः सर्गः – कैकेय्युपालम्भः
15. पञ्चदशः सर्गः – सुमन्त्रप्रेषणम्
16. षोडशः सर्गः – रामप्रस्थानम्
18. अष्टादशः सर्गः – वनवासनिदेशः
19. एकोनविंशः सर्गः – रामप्रतिज्ञा
20. विंशः सर्गः – कौसल्याक्रन्दः
21. एकविंशः सर्गः – कौसल्यालक्ष्मणप्रतिबोधनम्
22. द्वाविंशः सर्गः – दैवप्राबल्यम्
23. त्रयोविंशः सर्गः – लक्ष्मणक्रोधः
24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम्
25. पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्
26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम्
27. सप्तविंशः सर्गः – पतिव्रताध्यवसायः
28. अष्टाविंशः सर्गः – वनदुःखप्रतिबोधनम्
29. एकोनत्रिंशः सर्गः – वनगमनविज्ञप्तिः (वनानुगमनयाचनाञानिर्बन्धः)
30. त्रिंशः सर्गः – वनगमनाभ्युपपत्तिः
31. एकत्रिंशः सर्गः – लक्ष्मणवनानुगमनाभ्यनुज्ञा
32. द्वात्रिंशः सर्गः – वित्तविश्राणनम्
33. त्रयोस्त्रिंशः सर्गः – पौरवाक्यम्
34. चतुस्त्रिंशः सर्गः – दशरथसमाश्वासनम्
35. पञ्चत्रिंशः सर्गः – सुमन्त्रगर्हणम्
36. षट्त्रिंशः सर्गः – सिद्धार्थप्रतिबोधनम्
37. सप्तत्रिंशः सर्गः – चीरपरिग्रहनिमित्तवसिष्ठक्रोधः
38. अष्टात्रिंशः सर्गः – जनाक्रोशः
39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा
40. चत्वारिंशः सर्गः – पौराद्यनुव्रज्या
41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः
42. द्विचत्वारिंशः सर्गः – दशरथाक्रन्दः
43. त्रिचत्वारिंशः सर्गः – कौसल्यापरिदेवितम्
44. चतुश्चत्वारिंशः सर्गः – सुमित्राश्वासनम्
45. पञ्चचत्वारिंशः सर्गः – पौरयाचनम्
46. षट्चत्वारिंशः सर्गः – पौरमोहनम्
47. सप्तचत्वारिंशः सर्गः – पौरनिवृत्तिः
48. अष्टचत्वारिंशः सर्गः – पौराङ्गनाविलापः
49. एकोनपञ्चाशः सर्गः – जानपदाक्रोशः
50. पञ्चाशः सर्गः – गुहसङ्गतम्
51. एकपञ्चाशः सर्गः – गुहलक्ष्मणजागरणम्
52. द्विपञ्चाशः सर्गः – गङ्गातरणम्
53. त्रिपञ्चाशः सर्गः – रामसङ्क्षोभः
54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम्
55. पञ्चपञ्चाशः सर्गः – यमुनातरणम्
56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः
57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्
58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्
59. एकोनषष्टितमः सर्गः – दशरथविलापः
60. षष्टितमः सर्गः – कौसल्यासमाश्वासनम्
61. एकषष्टितमः सर्गः – कौसल्योपालम्भः
62. द्विषष्टितमः सर्गः – कौसल्याप्रसादनम्
63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम्
64. चतुःषष्टितमः सर्गः – दशरथदिष्टान्तः
65. पञ्चषष्टितमः सर्गः – अन्तःपुराक्रन्दः
66. षट्षष्टितमः सर्गः – तैलद्रोण्यधिशयनम्
67. सप्तषष्टितमः सर्गः – अराजकदुरवस्थावर्णनम्
68. अष्टषष्टितमः सर्गः – दूतप्रेषणम्
69. एकोनसप्ततितमः सर्गः – भरतदुःस्वप्नः
70. सप्ततितमः सर्गः – भरतप्रस्थानम्
71. एकसप्ततितमः सर्गः – अयोध्यागमनम्
72. द्विसप्ततितमः सर्गः – भरतसन्तापः
73. त्रिसप्ततितमः सर्गः – कैकेयीविगर्हणम्
74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः
75. पञ्चसप्ततितमः सर्गः – भरतशपथः
76. षट्सप्ततितमः सर्गः – दशरथौर्ध्वदैहिकम्
77. सप्तसप्ततितमः सर्गः – भरतशत्रुघ्नविलापः
78. अष्टसप्ततितमः सर्गः – कुब्जाविक्षेपः
79. एकोनाशीतितमः सर्गः – सचिवप्रार्थनाप्रतिषेधः
80. अशीतितमः सर्गः – मार्गसंस्कारः
81. एकाशीतितमः सर्गः – सभास्तानम्
82. द्वयशीतितमः सर्गः – सेनाप्रस्थापनम्
83. त्र्यशीतितमः सर्गः – भरतवनप्रस्थानम्
84. चतुरशीतितमः सर्गः – गुहागमनम्
85. पञ्चाशीतितमः सर्गः – गुहसमागमः
86. षडशीतितमः सर्गः – गुहवाक्यम्
87. सप्ताशीतितमः सर्गः – रामशयनादिप्रश्नः
88. अष्टाशीतितमः सर्गः – शय्यानुवीक्षणम्
89. एकोननवतितमः सर्गः – गङ्गातरणम्
90. नवतितमः सर्गः – भरद्वाजाश्रमनिवासः
91. एकनवतितमः सर्गः – भरद्वाजातिथ्यम्
92. द्विनवतितमः सर्गः – भरद्वाजामन्त्रणम्
93. त्रिनवतितमः सर्गः – चित्रकूटवनप्रेक्षणम्
94. चतुर्नवतितमः सर्गः – चित्रकूटवर्णना
95. पञ्चनवतितमः सर्गः – मन्दाकिनीवर्णना
96. षण्णवतितमः सर्गः – लक्ष्मणक्रोधः
97. सप्तनवतितमः सर्गः – भरतगुणप्रशंसा
98. अष्टनवतितमः सर्गः – रामान्वेषणम्
99. एकोनशततमः सर्गः – रामसमागमः
100. शततमः सर्गः – कच्चित्सर्गः
101. एकाधिकशततमः सर्गः – पितृदिष्टान्तश्रवणम्
102. द्व्यधिकशततमः सर्गः – निवापदानम्
103. त्र्यधिकशततमः सर्गः – मातृदर्शनम्
104. चतुरधिकशततमः सर्गः – रामभरतसंवादः
105. पञ्चाधिकशततमः सर्गः – रामवाक्यम्
106. षडधिकशततमः सर्गः – भरतवचनम्
107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम्
108. अष्टाधिकशततमः सर्गः – जाबालिवाक्यम्
109. नवाधिकशततमः सर्गः – सत्यप्रशंसा
110. दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्
111. एकादशाधिकशततमः सर्गः – भरतानुशासनम्
112. द्वादशाधिकशततमः सर्गः – पादुकाप्रदानम्
113. त्रयोदशाधिकशततमः सर्गः – पादुकाग्रहणम्
114. चतुर्दशाधिकशततमः सर्गः – अयोध्याप्रवेशः
115. पञ्चदशाधिकशततमः सर्गः – नन्दिग्रामनिवासः
116. षोडशाधिकशततमः सर्गः – खरविप्रकरणकथनम्
117. सप्तदशाधिकशततमः सर्गः – सीतापातिव्रत्यप्रशंसा