॥ कौसल्यालक्ष्मणप्रतिबोधनम् ॥
तथा तु विलपन्तीं तां कौसल्यां राममातरम् ।
उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ १ ॥
न रोचते ममाप्येतदार्ये यद्राघवो वनम् ।
त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः ॥ २ ॥
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः ।
नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः ॥ ३ ॥
नास्यापराधं पश्यामि नापि दोषं तथाविधम् ।
येन निर्वास्यते राष्ट्राद्वनवासाय राघवः ॥ ४ ॥
न तं पश्याम्यहं लोके परोक्षमपि यो नरः ।
स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥ ५ ॥
देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम् ।
अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् ॥ ६ ॥
तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः ।
पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् ॥ ७ ॥
यावदेव न जानाति कश्चिदर्थमिमं नरः ।
तावदेव मया सार्धमात्मस्थं कुरु शासनम् ॥ ८ ॥
मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।
कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥ ९ ॥
निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ ।
करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ॥ १० ॥
भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति ।
सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते ॥ ११ ॥
प्रोत्साहितोऽयं कैकेय्या स दुष्टो यदि नः पिता ।
अमित्रभूतो निःसङ्गं वध्यतां बध्यतामपि ॥ १२ ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥ १३ ॥
बलमेष किमाश्रित्य हेतुं वा पुरुषर्षभ ।
दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव ॥ १४ ॥
त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् ।
काऽस्य शक्तिः श्रियं दातुं भरतायारिशासन ॥ १५ ॥
अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः ।
सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ १६ ॥
दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति ।
प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ॥ १७ ॥
हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः ।
देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु ॥ १८ ॥
हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम् ।
कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम् ॥ १९ ॥
एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः ।
उवाच रामं कौसल्या रुदन्ती शोकलालसा ॥ २० ॥
भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया ।
यदत्रानन्तरं कार्यं कुरुष्व यदि रोचते ॥ २१ ॥
न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् ।
विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः ॥ २२ ॥
धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि ।
शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् ॥ २३ ॥
शुश्रूषुर्जननीं पुत्रः स्वगृहे नियतो वसन् ।
परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥ २४ ॥
यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् ।
त्वां नाहमनुजानामि न गन्तव्यमितो वनम् ॥ २५ ॥
त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा ।
त्वया सह मम श्रेयस्तृणानामपि भक्षणम् ॥ २६ ॥
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् ।
अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् ॥ २७ ॥
ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् ।
ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः ॥ २८ ॥
विलपन्तीं तदा दीनां कौसल्यां जननीं ततः ।
उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ २९ ॥
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम ।
प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ ३० ॥
ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा ।
गौर्हता जानता धर्मं कण्डुनाऽपि विपश्चिता ॥ ३१ ॥
अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः ।
खनद्भिः सागरैर्भूमिमवाप्तः सुमहान्वधः ॥ ३२ ॥
जामदग्न्येन रामेण रेणुका जननी स्वयम् ।
कृत्ता परशुनाऽरण्ये पितुर्वचनकारिणा ॥ ३३ ॥
एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् ।
पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम् ॥ ३४ ॥
न खल्वेतन्मयैकेन क्रियते पितृशासनम् ।
एतैरपि कृतं देवि ये मया तव कीर्तिताः ॥ ३५ ॥
नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये ।
पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥ ३६ ॥
तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा ।
पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ ३७ ॥
तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् ।
वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ ३८ ॥
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।
विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ॥ ३९ ॥
मम मातुर्महद्दुःखमतुलं शुभलक्षण ।
अभिप्रायमविज्ञाय सत्यस्य च शमस्य च ॥ ४० ॥
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् ।
धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ॥ ४१ ॥
संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा ।
न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ ४२ ॥
सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् ।
पितुर्हि वचनाद्वीर कैकेय्याऽहं प्रचोदितः ॥ ४३ ॥
तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् ।
धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ॥ ४४ ॥
तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः ।
उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः ॥ ४५ ॥
अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् ।
शापिताऽसि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥ ४६ ॥
तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् ।
ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥ ४७ ॥
शोकः सन्धार्यतां मातर्हृदये साधु मा शुचः ।
वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥ ४८ ॥
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।
पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः ॥ ४९ ॥
अम्ब संहृत्य सम्भारान् दुःखं हृदि निगृह्य च ।
वनवासकृता बुद्धिर्मम धर्म्याऽनुवर्त्यताम् ॥ ५० ॥
एतद्वचस्तस्य निशम्य माता
सुधर्म्यमव्यग्रमविक्लबं च ।
मृतेव सञ्ज्ञां प्रतिलभ्य देवी
समीक्ष्य रामं पुनरित्युवाच ॥ ५१ ॥
यथैव ते पुत्र पिता तथाऽहं
गुरुः स्वधर्मेण सुहृत्तया च ।
न त्वानुजानामि न मां विहाय
सुदुःखितामर्हसि गन्तुमेवम् ॥ ५२ ॥
किं जीवितेनेह विना त्वया मे
लोकेन वा किं स्वधयाऽमृतेन ।
श्रेयो मुहूर्तं तव सन्निधानं
ममेह कृत्स्नादपि जीवलोकात् ॥ ५३ ॥
नरैरिवोल्काभिरपोह्यमानो
महागजोऽध्वानमनुप्रविष्टः ।
भूयः प्रजज्वाल विलापमेनं
निशम्य रामः करुणं जनन्याः ॥ ५४ ॥
स मातरं चैव विसञ्ज्ञकल्पा-
-मार्तं च सौमित्रिमभिप्रतप्तम् ।
धर्मे स्थितो धर्म्यमुवाच वाक्यं
यथा स एवार्हति तत्र वक्तुम् ॥ ५५ ॥
अहं हि ते लक्ष्मण नित्यमेव
जानामि भक्तिं च पराक्रमं च ।
मम त्वभिप्रायमसन्निरीक्ष्य
मात्रा सहाभ्यर्दसि मां सुदुःखम् ॥ ५६ ॥
धर्मार्थकामाः किल तात लोके
समीक्षिता धर्मफलोदयेषु ।
ते तत्र सर्वे स्युरसंशयं मे
भार्येव वश्याऽभिमता सुपुत्रा ॥ ५७ ॥
यस्मिंस्तु सर्वे स्युरसन्निविष्टाः
धर्मो यतः स्यात्तदुपक्रमेत ।
द्वेष्यो भवत्यर्थपरो हि लोके
कामात्मता खल्वपि न प्रशस्ता ॥ ५८ ॥
गुरुश्च राजा च पिता च वृद्धः
क्रोधात्प्रहर्षाद्यदि वापि कामात् ।
यद्व्यादिशेत्कार्यमवेक्ष्य धर्मं
कस्तं न कुर्यादनृशंसवृत्तिः ॥ ५९ ॥
स वै न शक्नोमि पितुः प्रतिज्ञा-
-मिमामकर्तुं सकलां यथावत् ।
स ह्यावयोस्तात गुरुर्नियोगे
देव्याश्च भर्ता स गतिः स धर्मः ॥ ६० ॥
तस्मिन्पुनर्जीवति धर्मराजे
विशेषतः स्वे पथि वर्तमाने ।
देवी मया सार्धमितोऽपगच्छे-
-त्कथं स्विदन्या विधवेव नारी ॥ ६१ ॥
सा माऽनुमन्यस्व वनं व्रजन्तं
कुरुष्व नः स्वस्त्ययनानि देवि ।
यथा समाप्ते पुनराव्रजेयं
यथा हि सत्येन पुनर्ययातिः ॥ ६२ ॥
यशो ह्यहं केवलराज्यकारणा-
-न्न पृष्ठतः कर्तुमलं महोदयम् ।
अदीर्घकाले न तु देवि जीविते
वृणेऽवरामद्य महीमधर्मतः ॥ ६३ ॥
प्रसादयन्नरवृषभः स्वमातरं
पराक्रमाज्जिगमिषुरेव दण्डकान् ।
अथानुजं भृशमनुशास्य दर्शनं
चकार तां हृदि जननीं प्रदक्षिणम् ॥ ६४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकविंशः सर्गः ॥ २१ ॥
<< 20. विंशः सर्गः – कौसल्याक्रन्दः 22. द्वाविंशः सर्गः – दैवप्राबल्यम् >>1. प्रथमः सर्गः – रामाभिषेकव्यवसायः
2. द्वितीयः सर्गः – परिषदनुमोदनम्
3. तृतीयः सर्गः – पुत्रानुशासनम्
4. चतुर्थः सर्गः – मात्राशीःपरिग्रहः
5. पञ्चमः सर्गः – व्रतचर्याविधानम्
7. सप्तमः सर्गः – मन्थरापरिदेवनम्
9. नवमः सर्गः – रामप्रवासनोपायचिन्ता
11. एकादशः सर्गः – वरद्वयनिर्बन्धः
12. द्वादशः सर्गः – कैकेयीनिवर्तनप्रयासः
13. त्रयोदशः सर्गः – दशरथविलापः
14. चतुर्दशः सर्गः – कैकेय्युपालम्भः
15. पञ्चदशः सर्गः – सुमन्त्रप्रेषणम्
16. षोडशः सर्गः – रामप्रस्थानम्
18. अष्टादशः सर्गः – वनवासनिदेशः
19. एकोनविंशः सर्गः – रामप्रतिज्ञा
20. विंशः सर्गः – कौसल्याक्रन्दः
21. एकविंशः सर्गः – कौसल्यालक्ष्मणप्रतिबोधनम्
22. द्वाविंशः सर्गः – दैवप्राबल्यम्
23. त्रयोविंशः सर्गः – लक्ष्मणक्रोधः
24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम्
25. पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्
26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम्
27. सप्तविंशः सर्गः – पतिव्रताध्यवसायः
28. अष्टाविंशः सर्गः – वनदुःखप्रतिबोधनम्
29. एकोनत्रिंशः सर्गः – वनगमनविज्ञप्तिः (वनानुगमनयाचनाञानिर्बन्धः)
30. त्रिंशः सर्गः – वनगमनाभ्युपपत्तिः
31. एकत्रिंशः सर्गः – लक्ष्मणवनानुगमनाभ्यनुज्ञा
32. द्वात्रिंशः सर्गः – वित्तविश्राणनम्
33. त्रयोस्त्रिंशः सर्गः – पौरवाक्यम्
34. चतुस्त्रिंशः सर्गः – दशरथसमाश्वासनम्
35. पञ्चत्रिंशः सर्गः – सुमन्त्रगर्हणम्
36. षट्त्रिंशः सर्गः – सिद्धार्थप्रतिबोधनम्
37. सप्तत्रिंशः सर्गः – चीरपरिग्रहनिमित्तवसिष्ठक्रोधः
38. अष्टात्रिंशः सर्गः – जनाक्रोशः
39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा
40. चत्वारिंशः सर्गः – पौराद्यनुव्रज्या
41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः
42. द्विचत्वारिंशः सर्गः – दशरथाक्रन्दः
43. त्रिचत्वारिंशः सर्गः – कौसल्यापरिदेवितम्
44. चतुश्चत्वारिंशः सर्गः – सुमित्राश्वासनम्
45. पञ्चचत्वारिंशः सर्गः – पौरयाचनम्
46. षट्चत्वारिंशः सर्गः – पौरमोहनम्
47. सप्तचत्वारिंशः सर्गः – पौरनिवृत्तिः
48. अष्टचत्वारिंशः सर्गः – पौराङ्गनाविलापः
49. एकोनपञ्चाशः सर्गः – जानपदाक्रोशः
50. पञ्चाशः सर्गः – गुहसङ्गतम्
51. एकपञ्चाशः सर्गः – गुहलक्ष्मणजागरणम्
52. द्विपञ्चाशः सर्गः – गङ्गातरणम्
53. त्रिपञ्चाशः सर्गः – रामसङ्क्षोभः
54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम्
55. पञ्चपञ्चाशः सर्गः – यमुनातरणम्
56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः
57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्
58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्
59. एकोनषष्टितमः सर्गः – दशरथविलापः
60. षष्टितमः सर्गः – कौसल्यासमाश्वासनम्
61. एकषष्टितमः सर्गः – कौसल्योपालम्भः
62. द्विषष्टितमः सर्गः – कौसल्याप्रसादनम्
63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम्
64. चतुःषष्टितमः सर्गः – दशरथदिष्टान्तः
65. पञ्चषष्टितमः सर्गः – अन्तःपुराक्रन्दः
66. षट्षष्टितमः सर्गः – तैलद्रोण्यधिशयनम्
67. सप्तषष्टितमः सर्गः – अराजकदुरवस्थावर्णनम्
68. अष्टषष्टितमः सर्गः – दूतप्रेषणम्
69. एकोनसप्ततितमः सर्गः – भरतदुःस्वप्नः
70. सप्ततितमः सर्गः – भरतप्रस्थानम्
71. एकसप्ततितमः सर्गः – अयोध्यागमनम्
72. द्विसप्ततितमः सर्गः – भरतसन्तापः
73. त्रिसप्ततितमः सर्गः – कैकेयीविगर्हणम्
74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः
75. पञ्चसप्ततितमः सर्गः – भरतशपथः
76. षट्सप्ततितमः सर्गः – दशरथौर्ध्वदैहिकम्
77. सप्तसप्ततितमः सर्गः – भरतशत्रुघ्नविलापः
78. अष्टसप्ततितमः सर्गः – कुब्जाविक्षेपः
79. एकोनाशीतितमः सर्गः – सचिवप्रार्थनाप्रतिषेधः
80. अशीतितमः सर्गः – मार्गसंस्कारः
81. एकाशीतितमः सर्गः – सभास्तानम्
82. द्वयशीतितमः सर्गः – सेनाप्रस्थापनम्
83. त्र्यशीतितमः सर्गः – भरतवनप्रस्थानम्
84. चतुरशीतितमः सर्गः – गुहागमनम्
85. पञ्चाशीतितमः सर्गः – गुहसमागमः
86. षडशीतितमः सर्गः – गुहवाक्यम्
87. सप्ताशीतितमः सर्गः – रामशयनादिप्रश्नः
88. अष्टाशीतितमः सर्गः – शय्यानुवीक्षणम्
89. एकोननवतितमः सर्गः – गङ्गातरणम्
90. नवतितमः सर्गः – भरद्वाजाश्रमनिवासः
91. एकनवतितमः सर्गः – भरद्वाजातिथ्यम्
92. द्विनवतितमः सर्गः – भरद्वाजामन्त्रणम्
93. त्रिनवतितमः सर्गः – चित्रकूटवनप्रेक्षणम्
94. चतुर्नवतितमः सर्गः – चित्रकूटवर्णना
95. पञ्चनवतितमः सर्गः – मन्दाकिनीवर्णना
96. षण्णवतितमः सर्गः – लक्ष्मणक्रोधः
97. सप्तनवतितमः सर्गः – भरतगुणप्रशंसा
98. अष्टनवतितमः सर्गः – रामान्वेषणम्
99. एकोनशततमः सर्गः – रामसमागमः
100. शततमः सर्गः – कच्चित्सर्गः
101. एकाधिकशततमः सर्गः – पितृदिष्टान्तश्रवणम्
102. द्व्यधिकशततमः सर्गः – निवापदानम्
103. त्र्यधिकशततमः सर्गः – मातृदर्शनम्
104. चतुरधिकशततमः सर्गः – रामभरतसंवादः
105. पञ्चाधिकशततमः सर्गः – रामवाक्यम्
106. षडधिकशततमः सर्गः – भरतवचनम्
107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम्
108. अष्टाधिकशततमः सर्गः – जाबालिवाक्यम्
109. नवाधिकशततमः सर्गः – सत्यप्रशंसा
110. दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्
111. एकादशाधिकशततमः सर्गः – भरतानुशासनम्
112. द्वादशाधिकशततमः सर्गः – पादुकाप्रदानम्
113. त्रयोदशाधिकशततमः सर्गः – पादुकाग्रहणम्
114. चतुर्दशाधिकशततमः सर्गः – अयोध्याप्रवेशः
115. पञ्चदशाधिकशततमः सर्गः – नन्दिग्रामनिवासः
116. षोडशाधिकशततमः सर्गः – खरविप्रकरणकथनम्
117. सप्तदशाधिकशततमः सर्गः – सीतापातिव्रत्यप्रशंसा