वाल्मीकि रामायणे अयोध्याकाण्ड - चत्वारिंशः सर्गः – पौराद्यनुव्रज्या

॥ पौराद्यनुव्रज्या ॥

अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः ।
उपसङ्गृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् ॥ १ ॥

तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह ।
राघवः शोकसम्मूढो जननीमभ्यवादयत् ॥ २ ॥

अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् ।
अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥ ३ ॥

तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् ।
हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् ॥ ४ ॥

सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने ।
रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ॥ ५ ॥

व्यसनी वा समृद्धो वा गतिरेष तवानघ ।
एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ ६ ॥

इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् ।
दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥ ७ ॥

लक्ष्मणं त्वेवमुक्त्वा सा संसिद्धं प्रियराघवम् ।
सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥ ८ ॥

रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ।
अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ ९ ॥

ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत् ।
विनीतो विनयज्ञश्च मातलिर्वासवं यथा ॥ १० ॥

रथमारोह भद्रं ते राजपुत्र महायशः ।
क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि ॥ ११ ॥

चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया ।
तान्युपक्रमितव्यानि यानि देव्याऽसि चोदितः ॥ १२ ॥

तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा ।
आरुरोह वरारोहा कृत्वालंऽकारमात्मनः ॥ १३ ॥

अथो ज्वलनसङ्काशं चामीकरविभूषितम् ।
तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ ॥ १४ ॥

वनवासं हि सङ्ख्याय वासांस्याभरणानि च ।
भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ १५ ॥

तथैवायुधजालानि भ्रातृभ्यां कवचानि च ।
रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् ॥ १६ ॥

सीतातृतीयानारूढान्दृष्ट्वा धृष्टमचोदयत् ।
सुमन्त्रः सम्मतानश्वान्वायुवेगसमाञ्जवे ॥ १७ ॥

प्रतियाते महारण्यं चिररात्राय राघवे ।
बभूव नगरे मूर्छा बलमूर्छा जनस्य च ॥ १८ ॥

तत्समाकुलसम्भ्रान्तं मत्तसङ्कुपितद्विपम् ।
हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम् ॥ १९ ॥

ततः सबालवृद्धा सा पुरी परमपीडिता ।
राममेवाभिदुद्राव घर्मार्ता सलिलं यथा ॥ २० ॥

पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः ।
बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिस्वनाः ॥ २१ ॥

सम्यच्छ वाजिनां रश्मीन्सूत याहि शनैः शनैः ।
मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति ॥ २२ ॥

आयसं हृदयं नूनं राममातुरसंशयम् ।
यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥ २३ ॥

कृतकृत्या हि वैदेही छायेवानुगता पतिम् ।
न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ २४ ॥

अहो लक्ष्मण सिद्धार्थः सततां प्रियवादिनम् ।
भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि ॥ २५ ॥

महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान् ।
एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥ २६ ॥

एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् ।
नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम् ॥ २७ ॥

अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः ।
निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन्गृहात् ॥ २८ ॥

शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः ।
यथा नादः करेणूनां बद्धे महति कुञ्जरे ॥ २९ ॥

पिता हि राजा काकुत्स्थः श्रीमान्सन्नस्तदाऽभवत् ।
परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा ॥ ३० ॥

स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः ।
सूतं सञ्चोदयामास त्वरितं वाह्यतामिति ॥ ३१ ॥

रामो याहीति सूतं तं तिष्ठेति स जनस्तदा ।
उभयं नाशकत्सूतः कर्तुमध्वनि चोदितः ॥ ३२ ॥

निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः ।
पतितैरभ्यवहितं प्रशशाम महीरजः ॥ ३३ ॥

रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम् ।
प्रयाणे राघवस्यासीत्पुरं परमपीडितम् ॥ ३४ ॥

सुस्राव नयनैः स्त्रीणामास्रमायाससम्भवम् ।
मीनसङ्क्षोभचलितैः सलिलं पङ्कजैरिव ॥ ३५ ॥

दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम् ।
निपपातैव दुःखेन हतमूल इव द्रुमः ॥ ३६ ॥

ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः ।
नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ ३७ ॥

हा रामेति जनाः केचिद्राममातेति चापरे ।
अन्तःपुरं समृद्धं च क्रोशन्तः पर्यदेवयन् ॥ ३८ ॥

अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् ।
राजानं मातरं चैव ददर्शानुगतौ पथि ॥ ३९ ॥

स बद्ध इव पाशेन किशोरो मातरं यथा ।
धर्मपाशेन सङ्क्षिप्तः प्रकाशं नाभ्युदैक्षत ॥ ४० ॥

पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ ।
दृष्ट्वा सञ्चोदयामास शीघ्रं याहीति सारथिम् ॥ ४१ ॥

न हि तत्पुरुषव्याघ्रो दुःखदं दर्शनं पितुः ।
मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः ॥ ४२ ॥

प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् ।
बद्धवत्सा यथा धेनुः राममाताऽभ्याधावत ॥ ४३ ॥

तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् ।
क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च ॥ ४४ ॥

रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम् ।
असकृत्प्रैक्षत स तां नृत्यन्तीमिव मातरम् ॥ ४५ ॥

तिष्ठेति राजा चुक्रोश याहि याहीति राघवः ।
सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा ॥ ४६ ॥

नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि ।
चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् ॥ ४७ ॥

रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम् ।
व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः ॥ ४८ ॥

न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् ।
मनसाप्यश्रुवेगैश्च न न्यवर्तत मानुषम् ॥ ४९ ॥

यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत् ।
इत्यमात्या महाराजमूचुर्दशरथं वचः ॥ ५० ॥

तेषां वचः सर्वगुणोपपन्नं
प्रस्विन्नगात्रः प्रविषण्णरूपः ।
निशम्य राजा कृपणः सभार्यो
व्यवस्थितस्तं सुतमीक्षमाणः ॥ ५१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥

<< 39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा 41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः >>

1. प्रथमः सर्गः – रामाभिषेकव्यवसायः

2. द्वितीयः सर्गः – परिषदनुमोदनम्

3. तृतीयः सर्गः – पुत्रानुशासनम्

4. चतुर्थः सर्गः – मात्राशीःपरिग्रहः

5. पञ्चमः सर्गः – व्रतचर्याविधानम्

6. षष्ठः सर्गः – पौरोत्सेकः

7. सप्तमः सर्गः – मन्थरापरिदेवनम्

8. अष्टमः सर्गः – मन्थरोपजापः

9. नवमः सर्गः – रामप्रवासनोपायचिन्ता

10. दशमः सर्गः – कैकेय्यनुनयः

11. एकादशः सर्गः – वरद्वयनिर्बन्धः

12. द्वादशः सर्गः – कैकेयीनिवर्तनप्रयासः

13. त्रयोदशः सर्गः – दशरथविलापः

14. चतुर्दशः सर्गः – कैकेय्युपालम्भः

15. पञ्चदशः सर्गः – सुमन्त्रप्रेषणम्

16. षोडशः सर्गः – रामप्रस्थानम्

17. सप्तदशः सर्गः – रामागमनम्

18. अष्टादशः सर्गः – वनवासनिदेशः

19. एकोनविंशः सर्गः – रामप्रतिज्ञा

20. विंशः सर्गः – कौसल्याक्रन्दः

21. एकविंशः सर्गः – कौसल्यालक्ष्मणप्रतिबोधनम्

22. द्वाविंशः सर्गः – दैवप्राबल्यम्

23. त्रयोविंशः सर्गः – लक्ष्मणक्रोधः

24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम्

25. पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्

26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम्

27. सप्तविंशः सर्गः – पतिव्रताध्यवसायः

28. अष्टाविंशः सर्गः – वनदुःखप्रतिबोधनम्

29. एकोनत्रिंशः सर्गः – वनगमनविज्ञप्तिः (वनानुगमनयाचनाञानिर्बन्धः)

30. त्रिंशः सर्गः – वनगमनाभ्युपपत्तिः

31. एकत्रिंशः सर्गः – लक्ष्मणवनानुगमनाभ्यनुज्ञा

32. द्वात्रिंशः सर्गः – वित्तविश्राणनम्

33. त्रयोस्त्रिंशः सर्गः – पौरवाक्यम्

34. चतुस्त्रिंशः सर्गः – दशरथसमाश्वासनम्

35. पञ्चत्रिंशः सर्गः – सुमन्त्रगर्हणम्

36. षट्त्रिंशः सर्गः – सिद्धार्थप्रतिबोधनम्

37. सप्तत्रिंशः सर्गः – चीरपरिग्रहनिमित्तवसिष्ठक्रोधः

38. अष्टात्रिंशः सर्गः – जनाक्रोशः

39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा

40. चत्वारिंशः सर्गः – पौराद्यनुव्रज्या

41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः

42. द्विचत्वारिंशः सर्गः – दशरथाक्रन्दः

43. त्रिचत्वारिंशः सर्गः – कौसल्यापरिदेवितम्

44. चतुश्चत्वारिंशः सर्गः – सुमित्राश्वासनम्

45. पञ्चचत्वारिंशः सर्गः – पौरयाचनम्

46. षट्चत्वारिंशः सर्गः – पौरमोहनम्

47. सप्तचत्वारिंशः सर्गः – पौरनिवृत्तिः

48. अष्टचत्वारिंशः सर्गः – पौराङ्गनाविलापः

49. एकोनपञ्चाशः सर्गः – जानपदाक्रोशः

50. पञ्चाशः सर्गः – गुहसङ्गतम्

51. एकपञ्चाशः सर्गः – गुहलक्ष्मणजागरणम्

52. द्विपञ्चाशः सर्गः – गङ्गातरणम्

53. त्रिपञ्चाशः सर्गः – रामसङ्क्षोभः

54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम्

55. पञ्चपञ्चाशः सर्गः – यमुनातरणम्

56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः

57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्

58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्

59. एकोनषष्टितमः सर्गः – दशरथविलापः

60. षष्टितमः सर्गः – कौसल्यासमाश्वासनम्

61. एकषष्टितमः सर्गः – कौसल्योपालम्भः

62. द्विषष्टितमः सर्गः – कौसल्याप्रसादनम्

63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम्

64. चतुःषष्टितमः सर्गः – दशरथदिष्टान्तः

65. पञ्चषष्टितमः सर्गः – अन्तःपुराक्रन्दः

66. षट्षष्टितमः सर्गः – तैलद्रोण्यधिशयनम्

67. सप्तषष्टितमः सर्गः – अराजकदुरवस्थावर्णनम्

68. अष्टषष्टितमः सर्गः – दूतप्रेषणम्

69. एकोनसप्ततितमः सर्गः – भरतदुःस्वप्नः

70. सप्ततितमः सर्गः – भरतप्रस्थानम्

71. एकसप्ततितमः सर्गः – अयोध्यागमनम्

72. द्विसप्ततितमः सर्गः – भरतसन्तापः

73. त्रिसप्ततितमः सर्गः – कैकेयीविगर्हणम्

74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः

75. पञ्चसप्ततितमः सर्गः – भरतशपथः

76. षट्सप्ततितमः सर्गः – दशरथौर्ध्वदैहिकम्

77. सप्तसप्ततितमः सर्गः – भरतशत्रुघ्नविलापः

78. अष्टसप्ततितमः सर्गः – कुब्जाविक्षेपः

79. एकोनाशीतितमः सर्गः – सचिवप्रार्थनाप्रतिषेधः

80. अशीतितमः सर्गः – मार्गसंस्कारः

81. एकाशीतितमः सर्गः – सभास्तानम्

82. द्वयशीतितमः सर्गः – सेनाप्रस्थापनम्

83. त्र्यशीतितमः सर्गः – भरतवनप्रस्थानम्

84. चतुरशीतितमः सर्गः – गुहागमनम्

85. पञ्चाशीतितमः सर्गः – गुहसमागमः

86. षडशीतितमः सर्गः – गुहवाक्यम्

87. सप्ताशीतितमः सर्गः – रामशयनादिप्रश्नः

88. अष्टाशीतितमः सर्गः – शय्यानुवीक्षणम्

89. एकोननवतितमः सर्गः – गङ्गातरणम्

90. नवतितमः सर्गः – भरद्वाजाश्रमनिवासः

91. एकनवतितमः सर्गः – भरद्वाजातिथ्यम्

92. द्विनवतितमः सर्गः – भरद्वाजामन्त्रणम्

93. त्रिनवतितमः सर्गः – चित्रकूटवनप्रेक्षणम्

94. चतुर्नवतितमः सर्गः – चित्रकूटवर्णना

95. पञ्चनवतितमः सर्गः – मन्दाकिनीवर्णना

96. षण्णवतितमः सर्गः – लक्ष्मणक्रोधः

97. सप्तनवतितमः सर्गः – भरतगुणप्रशंसा

98. अष्टनवतितमः सर्गः – रामान्वेषणम्

99. एकोनशततमः सर्गः – रामसमागमः

100. शततमः सर्गः – कच्चित्सर्गः

101. एकाधिकशततमः सर्गः – पितृदिष्टान्तश्रवणम्

102. द्व्यधिकशततमः सर्गः – निवापदानम्

103. त्र्यधिकशततमः सर्गः – मातृदर्शनम्

104. चतुरधिकशततमः सर्गः – रामभरतसंवादः

105. पञ्चाधिकशततमः सर्गः – रामवाक्यम्

106. षडधिकशततमः सर्गः – भरतवचनम्

107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम्

108. अष्टाधिकशततमः सर्गः – जाबालिवाक्यम्

109. नवाधिकशततमः सर्गः – सत्यप्रशंसा

110. दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्

111. एकादशाधिकशततमः सर्गः – भरतानुशासनम्

112. द्वादशाधिकशततमः सर्गः – पादुकाप्रदानम्

113. त्रयोदशाधिकशततमः सर्गः – पादुकाग्रहणम्

114. चतुर्दशाधिकशततमः सर्गः – अयोध्याप्रवेशः

115. पञ्चदशाधिकशततमः सर्गः – नन्दिग्रामनिवासः

116. षोडशाधिकशततमः सर्गः – खरविप्रकरणकथनम्

117. सप्तदशाधिकशततमः सर्गः – सीतापातिव्रत्यप्रशंसा

118. अष्टादशाधिकशततमः सर्गः – दिव्यालङ्कारग्रहणम्

119. एकोनविंशत्यधिकशततमः सर्गः – दण्डकारण्यप्रवेशः