वाल्मीकि रामायणे अयोध्याकाण्ड - त्रयोविंशः सर्गः – लक्ष्मणक्रोधः

॥ लक्ष्मणक्रोधः ॥

इति ब्रुवति रामे तु लक्ष्मणोऽधश्शिरा मुहुः ।
श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः ॥ १ ॥

तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः ।
निशश्वास महासर्पो बिलस्थ इव रोषितः ॥ २ ॥

तस्य दुष्प्रतिवीक्षं तद्भृकुटीसहितं तदा ।
बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ ३ ॥

अग्रहस्तं विधुन्वंस्तु हस्तिहस्तमिवात्मनः ।
तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् ॥ ४ ॥

अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत् ।
अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम् ॥ ५ ॥

धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया ।
कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति ॥ ६ ॥

यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ ।
किं नाम कृपणं दैवमशक्तमभिशंससि ॥ ७ ॥

पापयोस्ते कथं नाम तयोः शङ्का न विद्यते ।
सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन्किं न बुध्यसे ॥ ८ ॥

तयोः सुचरितं स्वार्थं शाठ्यात्परिजिहीर्षतोः ।
यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव ॥ ९ ॥

तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ।
लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् ॥ १० ॥

नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि ।
येनेयमागता द्वैधं तव बुद्धिर्महामते ॥ ११ ॥

स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि ।
कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः ॥ १२ ॥

करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ।
यद्ययं किल्बिषाद्भेदः कृतोऽप्येवं न गृह्यते ॥ १३ ॥

जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः ।
मनसाऽपि कथं कामं कुर्यास्त्वं कामवृत्तयोः ॥ १४ ॥

तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः ।
यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् ॥ १५ ॥

तथाऽप्युपेक्षणीयं ते न मे तदपि रोचते ।
विक्लबो वीर्यहीनो यः स दैवमनुवर्तते ॥ १६ ॥

वीराः सम्भावितात्मानो न दैवं पर्युपासते ।
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् ॥ १७ ॥

न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति ।
द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च ॥ १८ ॥

दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति ।
अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः ॥ १९ ॥

यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् ।
अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम् ॥ २० ॥

प्रधावितमहं दैवं पौरुषेण निवर्तये ।
लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम् ॥ २१ ॥

न च कृत्स्नास्त्रयो लोकाः विहन्युः किं पुनः पिता ।
यैर्विवासस्तवारण्ये मिथो राजन्समर्थितः ॥ २२ ॥

अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा ।
अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव ॥ २३ ॥

अभिषेकविघातेन पुत्रराज्याय वर्तते ।
मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा ॥ २४ ॥

प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ।
ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् ॥ २५ ॥

आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ।
पूर्वं राजर्षिवृत्त्या हि वनवासो विधीयते ॥ २६ ॥

प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने ।
स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया ॥ २७ ॥

नैवमिच्छसि धर्मात्मन्राज्यं राम त्वमात्मनि ।
प्रतिजाने च ते वीर मा भूवं वीरलोकभाक् ॥ २८ ॥

राज्यं च तव रक्षेयमहं वेलेव सागरम् ।
मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव ॥ २९ ॥

अहमेको महीपालानलं वारयितुं बलात् ।
न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे ॥ ३० ॥

नासिराबन्धनार्थाय न शराः स्तम्भहेतवः ।
अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् ॥ ३१ ॥

न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम ।
असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा ॥ ३२ ॥

प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये ।
खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे ॥ ३३ ॥

हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही ।
खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः ॥ ३४ ॥

पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः ।
बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने ॥ ३५ ॥

कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते ।
बहुभिश्चैकमत्यस्यन्नैकेन च बहून् जनान् ॥ ३६ ॥

विनियोक्ष्याम्यहं बाणान् नृवाजिगजमर्मसु ।
अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति ॥ ३७ ॥

राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो ।
अद्य चन्दनसारस्य केयुरामोक्षणस्य च ॥ ३८ ॥

वसूनां च विमोक्षस्य सुहृदां पालनस्य च ।
अनुरूपाविमौ बाहू राम कर्म करिष्यतः ।
अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे ॥ ३९ ॥

ब्रवीहि कोऽद्यैव मया वियुज्यतां
तवासुहृत्प्राणयशः सुहृज्जनैः ।
यथा तवेयं वसुधा वशे भवे-
-त्तथैव मां शाधि तवास्मि किङ्करः ॥ ४० ॥

विमृज्य बाष्पं परिसान्त्व्य चासकृ-
-त्स लक्ष्मणं राघववंशवर्धनः ।
उवाच पित्र्ये वचने व्यवस्थितं
निबोध मामेव हि सौम्य सत्पथे ॥ ४१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥

<< 22. द्वाविंशः सर्गः – दैवप्राबल्यम् 24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम् >>

1. प्रथमः सर्गः – रामाभिषेकव्यवसायः

2. द्वितीयः सर्गः – परिषदनुमोदनम्

3. तृतीयः सर्गः – पुत्रानुशासनम्

4. चतुर्थः सर्गः – मात्राशीःपरिग्रहः

5. पञ्चमः सर्गः – व्रतचर्याविधानम्

6. षष्ठः सर्गः – पौरोत्सेकः

7. सप्तमः सर्गः – मन्थरापरिदेवनम्

8. अष्टमः सर्गः – मन्थरोपजापः

9. नवमः सर्गः – रामप्रवासनोपायचिन्ता

10. दशमः सर्गः – कैकेय्यनुनयः

11. एकादशः सर्गः – वरद्वयनिर्बन्धः

12. द्वादशः सर्गः – कैकेयीनिवर्तनप्रयासः

13. त्रयोदशः सर्गः – दशरथविलापः

14. चतुर्दशः सर्गः – कैकेय्युपालम्भः

15. पञ्चदशः सर्गः – सुमन्त्रप्रेषणम्

16. षोडशः सर्गः – रामप्रस्थानम्

17. सप्तदशः सर्गः – रामागमनम्

18. अष्टादशः सर्गः – वनवासनिदेशः

19. एकोनविंशः सर्गः – रामप्रतिज्ञा

20. विंशः सर्गः – कौसल्याक्रन्दः

21. एकविंशः सर्गः – कौसल्यालक्ष्मणप्रतिबोधनम्

22. द्वाविंशः सर्गः – दैवप्राबल्यम्

23. त्रयोविंशः सर्गः – लक्ष्मणक्रोधः

24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम्

25. पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्

26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम्

27. सप्तविंशः सर्गः – पतिव्रताध्यवसायः

28. अष्टाविंशः सर्गः – वनदुःखप्रतिबोधनम्

29. एकोनत्रिंशः सर्गः – वनगमनविज्ञप्तिः (वनानुगमनयाचनाञानिर्बन्धः)

30. त्रिंशः सर्गः – वनगमनाभ्युपपत्तिः

31. एकत्रिंशः सर्गः – लक्ष्मणवनानुगमनाभ्यनुज्ञा

32. द्वात्रिंशः सर्गः – वित्तविश्राणनम्

33. त्रयोस्त्रिंशः सर्गः – पौरवाक्यम्

34. चतुस्त्रिंशः सर्गः – दशरथसमाश्वासनम्

35. पञ्चत्रिंशः सर्गः – सुमन्त्रगर्हणम्

36. षट्त्रिंशः सर्गः – सिद्धार्थप्रतिबोधनम्

37. सप्तत्रिंशः सर्गः – चीरपरिग्रहनिमित्तवसिष्ठक्रोधः

38. अष्टात्रिंशः सर्गः – जनाक्रोशः

39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा

40. चत्वारिंशः सर्गः – पौराद्यनुव्रज्या

41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः

42. द्विचत्वारिंशः सर्गः – दशरथाक्रन्दः

43. त्रिचत्वारिंशः सर्गः – कौसल्यापरिदेवितम्

44. चतुश्चत्वारिंशः सर्गः – सुमित्राश्वासनम्

45. पञ्चचत्वारिंशः सर्गः – पौरयाचनम्

46. षट्चत्वारिंशः सर्गः – पौरमोहनम्

47. सप्तचत्वारिंशः सर्गः – पौरनिवृत्तिः

48. अष्टचत्वारिंशः सर्गः – पौराङ्गनाविलापः

49. एकोनपञ्चाशः सर्गः – जानपदाक्रोशः

50. पञ्चाशः सर्गः – गुहसङ्गतम्

51. एकपञ्चाशः सर्गः – गुहलक्ष्मणजागरणम्

52. द्विपञ्चाशः सर्गः – गङ्गातरणम्

53. त्रिपञ्चाशः सर्गः – रामसङ्क्षोभः

54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम्

55. पञ्चपञ्चाशः सर्गः – यमुनातरणम्

56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः

57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्

58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्

59. एकोनषष्टितमः सर्गः – दशरथविलापः

60. षष्टितमः सर्गः – कौसल्यासमाश्वासनम्

61. एकषष्टितमः सर्गः – कौसल्योपालम्भः

62. द्विषष्टितमः सर्गः – कौसल्याप्रसादनम्

63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम्

64. चतुःषष्टितमः सर्गः – दशरथदिष्टान्तः

65. पञ्चषष्टितमः सर्गः – अन्तःपुराक्रन्दः

66. षट्षष्टितमः सर्गः – तैलद्रोण्यधिशयनम्

67. सप्तषष्टितमः सर्गः – अराजकदुरवस्थावर्णनम्

68. अष्टषष्टितमः सर्गः – दूतप्रेषणम्

69. एकोनसप्ततितमः सर्गः – भरतदुःस्वप्नः

70. सप्ततितमः सर्गः – भरतप्रस्थानम्

71. एकसप्ततितमः सर्गः – अयोध्यागमनम्

72. द्विसप्ततितमः सर्गः – भरतसन्तापः

73. त्रिसप्ततितमः सर्गः – कैकेयीविगर्हणम्

74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः

75. पञ्चसप्ततितमः सर्गः – भरतशपथः

76. षट्सप्ततितमः सर्गः – दशरथौर्ध्वदैहिकम्

77. सप्तसप्ततितमः सर्गः – भरतशत्रुघ्नविलापः

78. अष्टसप्ततितमः सर्गः – कुब्जाविक्षेपः

79. एकोनाशीतितमः सर्गः – सचिवप्रार्थनाप्रतिषेधः

80. अशीतितमः सर्गः – मार्गसंस्कारः

81. एकाशीतितमः सर्गः – सभास्तानम्

82. द्वयशीतितमः सर्गः – सेनाप्रस्थापनम्

83. त्र्यशीतितमः सर्गः – भरतवनप्रस्थानम्

84. चतुरशीतितमः सर्गः – गुहागमनम्

85. पञ्चाशीतितमः सर्गः – गुहसमागमः

86. षडशीतितमः सर्गः – गुहवाक्यम्

87. सप्ताशीतितमः सर्गः – रामशयनादिप्रश्नः

88. अष्टाशीतितमः सर्गः – शय्यानुवीक्षणम्

89. एकोननवतितमः सर्गः – गङ्गातरणम्

90. नवतितमः सर्गः – भरद्वाजाश्रमनिवासः

91. एकनवतितमः सर्गः – भरद्वाजातिथ्यम्

92. द्विनवतितमः सर्गः – भरद्वाजामन्त्रणम्

93. त्रिनवतितमः सर्गः – चित्रकूटवनप्रेक्षणम्

94. चतुर्नवतितमः सर्गः – चित्रकूटवर्णना

95. पञ्चनवतितमः सर्गः – मन्दाकिनीवर्णना

96. षण्णवतितमः सर्गः – लक्ष्मणक्रोधः

97. सप्तनवतितमः सर्गः – भरतगुणप्रशंसा

98. अष्टनवतितमः सर्गः – रामान्वेषणम्

99. एकोनशततमः सर्गः – रामसमागमः

100. शततमः सर्गः – कच्चित्सर्गः

101. एकाधिकशततमः सर्गः – पितृदिष्टान्तश्रवणम्

102. द्व्यधिकशततमः सर्गः – निवापदानम्

103. त्र्यधिकशततमः सर्गः – मातृदर्शनम्

104. चतुरधिकशततमः सर्गः – रामभरतसंवादः

105. पञ्चाधिकशततमः सर्गः – रामवाक्यम्

106. षडधिकशततमः सर्गः – भरतवचनम्

107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम्

108. अष्टाधिकशततमः सर्गः – जाबालिवाक्यम्

109. नवाधिकशततमः सर्गः – सत्यप्रशंसा

110. दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्

111. एकादशाधिकशततमः सर्गः – भरतानुशासनम्

112. द्वादशाधिकशततमः सर्गः – पादुकाप्रदानम्

113. त्रयोदशाधिकशततमः सर्गः – पादुकाग्रहणम्

114. चतुर्दशाधिकशततमः सर्गः – अयोध्याप्रवेशः

115. पञ्चदशाधिकशततमः सर्गः – नन्दिग्रामनिवासः

116. षोडशाधिकशततमः सर्गः – खरविप्रकरणकथनम्

117. सप्तदशाधिकशततमः सर्गः – सीतापातिव्रत्यप्रशंसा

118. अष्टादशाधिकशततमः सर्गः – दिव्यालङ्कारग्रहणम्

119. एकोनविंशत्यधिकशततमः सर्गः – दण्डकारण्यप्रवेशः