॥ कैकेयीविगर्हणम् ॥
श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ ।
भरतो दुःख सन्तप्तैदं वचनमब्रवीत् ॥ १ ॥
किं नु कार्यं हतस्येह मम राज्येन शोचतः ।
विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ॥ २ ॥
दुःखे मे दुःखमकरोर्वृणे क्षारमिवादधाः ।
राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् ॥ ३ ॥
कुलस्य त्वमभावाय काल रात्रिरिवागता ।
अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान् ॥ ४ ॥
मृत्युमापादितो राजा त्वया मे पापदर्शिनि ।
सुखं परिहृतं मोहात्कुलेऽस्मिन् कुलपांसिनि ॥ ५ ॥
त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः ।
तीव्रदुःखाभिसन्तप्तो वृत्तो दशरथो नृपः ॥ ६ ॥
विनाशितो महाराजः पिता मे धर्मवत्सलः ।
कस्मात्प्रव्राजितो रामः कस्मादेव वनं गतः ॥ ७ ॥
कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते ।
दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम ॥ ८ ॥
ननु त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम् ।
वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते ॥ ९ ॥
तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी ।
त्वयि धर्मं समास्थाय भगिन्यामिव वर्तते ॥ १० ॥
तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम् ।
प्रस्थाप्य वनवासाय कथं पापे न शोचसि ॥ ११ ॥
अपापदर्शनं शूरं कृतात्मानं यशस्विनम् ।
प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् ॥ १२ ॥
लुब्धाया विदितः मन्ये न तेऽहं राघवं प्रति ।
तथा ह्यनर्थो राज्यार्थं त्वयाऽऽनीतः महानयम् ॥ १३ ॥
अहं हि पुरुषव्याघ्रौ अपश्यन् रामलक्ष्मणौ ।
केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ॥ १४ ॥
तं हि नित्यं महाराजो बलवन्तं महाबलः ।
अपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा ॥ १५ ॥
सोऽहं कथमिमं भारं महाधुर्यसमुद्धृतम् ।
दम्यो धुरमिवासाद्य सहेयं केन चौजसा ॥ १६ ॥
अथवा मे भवेच्छक्तिर्योगैः बुद्धि बलेन वा ।
सकामां न करिष्यामि त्वामहं पुत्र गर्धिनीम् ॥ १७ ॥
न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् ।
यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥ १८ ॥
उत्पन्ना तु कथं बुद्धिस्तवेयं पापदर्शिनी ।
साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता ॥ १९ ॥
अस्मिन्कुले हि पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते ।
अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥ २० ॥
न हि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे ।
गतिं वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥ २१ ॥
सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ।
राज्ञामेतत्समं तत्स्यादिक्ष्वाकूणां विशेषतः ॥ २२ ॥
तेषां धर्मैकरक्षाणां कुलचारित्रशोभिनाम् ।
अद्य चारित्रशौण्डीर्यं त्वां प्राप्य विनिवर्ततम् ॥ २३ ॥
तवापि सुमहाभागाः जनेन्द्राः कुलपूर्वगाः ।
बुद्धेर्मोहः कथमयं सम्भूतस्त्वयि गर्हितः ॥ २४ ॥
न तु कामं करिष्यामि तवाऽहं पापनिश्चये ।
त्वया व्यसनमारब्धं जीवितान्तकरं मम ॥ २५ ॥
एष त्विदानीमेवाहमप्रियार्थं तवनघम् ।
निवर्तयिष्यामि वनात् भ्रातरं स्वजनप्रियम् ॥ २६ ॥
निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः ।
दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥ २७ ॥
इत्येवमुक्त्वा भरतः महात्मा
प्रियेतरैः वाक्य गणैस्तुदंस्ताम् ।
शोकातुरश्चापि ननाद भूयः
सिंहो यथा पर्वतगह्वरस्थः ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥
<< 72. द्विसप्ततितमः सर्गः – भरतसन्तापः 74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः >>1. प्रथमः सर्गः – रामाभिषेकव्यवसायः
2. द्वितीयः सर्गः – परिषदनुमोदनम्
3. तृतीयः सर्गः – पुत्रानुशासनम्
4. चतुर्थः सर्गः – मात्राशीःपरिग्रहः
5. पञ्चमः सर्गः – व्रतचर्याविधानम्
7. सप्तमः सर्गः – मन्थरापरिदेवनम्
9. नवमः सर्गः – रामप्रवासनोपायचिन्ता
11. एकादशः सर्गः – वरद्वयनिर्बन्धः
12. द्वादशः सर्गः – कैकेयीनिवर्तनप्रयासः
13. त्रयोदशः सर्गः – दशरथविलापः
14. चतुर्दशः सर्गः – कैकेय्युपालम्भः
15. पञ्चदशः सर्गः – सुमन्त्रप्रेषणम्
16. षोडशः सर्गः – रामप्रस्थानम्
18. अष्टादशः सर्गः – वनवासनिदेशः
19. एकोनविंशः सर्गः – रामप्रतिज्ञा
20. विंशः सर्गः – कौसल्याक्रन्दः
21. एकविंशः सर्गः – कौसल्यालक्ष्मणप्रतिबोधनम्
22. द्वाविंशः सर्गः – दैवप्राबल्यम्
23. त्रयोविंशः सर्गः – लक्ष्मणक्रोधः
24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम्
25. पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्
26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम्
27. सप्तविंशः सर्गः – पतिव्रताध्यवसायः
28. अष्टाविंशः सर्गः – वनदुःखप्रतिबोधनम्
29. एकोनत्रिंशः सर्गः – वनगमनविज्ञप्तिः (वनानुगमनयाचनाञानिर्बन्धः)
30. त्रिंशः सर्गः – वनगमनाभ्युपपत्तिः
31. एकत्रिंशः सर्गः – लक्ष्मणवनानुगमनाभ्यनुज्ञा
32. द्वात्रिंशः सर्गः – वित्तविश्राणनम्
33. त्रयोस्त्रिंशः सर्गः – पौरवाक्यम्
34. चतुस्त्रिंशः सर्गः – दशरथसमाश्वासनम्
35. पञ्चत्रिंशः सर्गः – सुमन्त्रगर्हणम्
36. षट्त्रिंशः सर्गः – सिद्धार्थप्रतिबोधनम्
37. सप्तत्रिंशः सर्गः – चीरपरिग्रहनिमित्तवसिष्ठक्रोधः
38. अष्टात्रिंशः सर्गः – जनाक्रोशः
39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा
40. चत्वारिंशः सर्गः – पौराद्यनुव्रज्या
41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः
42. द्विचत्वारिंशः सर्गः – दशरथाक्रन्दः
43. त्रिचत्वारिंशः सर्गः – कौसल्यापरिदेवितम्
44. चतुश्चत्वारिंशः सर्गः – सुमित्राश्वासनम्
45. पञ्चचत्वारिंशः सर्गः – पौरयाचनम्
46. षट्चत्वारिंशः सर्गः – पौरमोहनम्
47. सप्तचत्वारिंशः सर्गः – पौरनिवृत्तिः
48. अष्टचत्वारिंशः सर्गः – पौराङ्गनाविलापः
49. एकोनपञ्चाशः सर्गः – जानपदाक्रोशः
50. पञ्चाशः सर्गः – गुहसङ्गतम्
51. एकपञ्चाशः सर्गः – गुहलक्ष्मणजागरणम्
52. द्विपञ्चाशः सर्गः – गङ्गातरणम्
53. त्रिपञ्चाशः सर्गः – रामसङ्क्षोभः
54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम्
55. पञ्चपञ्चाशः सर्गः – यमुनातरणम्
56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः
57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्
58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्
59. एकोनषष्टितमः सर्गः – दशरथविलापः
60. षष्टितमः सर्गः – कौसल्यासमाश्वासनम्
61. एकषष्टितमः सर्गः – कौसल्योपालम्भः
62. द्विषष्टितमः सर्गः – कौसल्याप्रसादनम्
63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम्
64. चतुःषष्टितमः सर्गः – दशरथदिष्टान्तः
65. पञ्चषष्टितमः सर्गः – अन्तःपुराक्रन्दः
66. षट्षष्टितमः सर्गः – तैलद्रोण्यधिशयनम्
67. सप्तषष्टितमः सर्गः – अराजकदुरवस्थावर्णनम्
68. अष्टषष्टितमः सर्गः – दूतप्रेषणम्
69. एकोनसप्ततितमः सर्गः – भरतदुःस्वप्नः
70. सप्ततितमः सर्गः – भरतप्रस्थानम्
71. एकसप्ततितमः सर्गः – अयोध्यागमनम्
72. द्विसप्ततितमः सर्गः – भरतसन्तापः
73. त्रिसप्ततितमः सर्गः – कैकेयीविगर्हणम्
74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः
75. पञ्चसप्ततितमः सर्गः – भरतशपथः
76. षट्सप्ततितमः सर्गः – दशरथौर्ध्वदैहिकम्
77. सप्तसप्ततितमः सर्गः – भरतशत्रुघ्नविलापः
78. अष्टसप्ततितमः सर्गः – कुब्जाविक्षेपः
79. एकोनाशीतितमः सर्गः – सचिवप्रार्थनाप्रतिषेधः
80. अशीतितमः सर्गः – मार्गसंस्कारः
81. एकाशीतितमः सर्गः – सभास्तानम्
82. द्वयशीतितमः सर्गः – सेनाप्रस्थापनम्
83. त्र्यशीतितमः सर्गः – भरतवनप्रस्थानम्
84. चतुरशीतितमः सर्गः – गुहागमनम्
85. पञ्चाशीतितमः सर्गः – गुहसमागमः
86. षडशीतितमः सर्गः – गुहवाक्यम्
87. सप्ताशीतितमः सर्गः – रामशयनादिप्रश्नः
88. अष्टाशीतितमः सर्गः – शय्यानुवीक्षणम्
89. एकोननवतितमः सर्गः – गङ्गातरणम्
90. नवतितमः सर्गः – भरद्वाजाश्रमनिवासः
91. एकनवतितमः सर्गः – भरद्वाजातिथ्यम्
92. द्विनवतितमः सर्गः – भरद्वाजामन्त्रणम्
93. त्रिनवतितमः सर्गः – चित्रकूटवनप्रेक्षणम्
94. चतुर्नवतितमः सर्गः – चित्रकूटवर्णना
95. पञ्चनवतितमः सर्गः – मन्दाकिनीवर्णना
96. षण्णवतितमः सर्गः – लक्ष्मणक्रोधः
97. सप्तनवतितमः सर्गः – भरतगुणप्रशंसा
98. अष्टनवतितमः सर्गः – रामान्वेषणम्
99. एकोनशततमः सर्गः – रामसमागमः
100. शततमः सर्गः – कच्चित्सर्गः
101. एकाधिकशततमः सर्गः – पितृदिष्टान्तश्रवणम्
102. द्व्यधिकशततमः सर्गः – निवापदानम्
103. त्र्यधिकशततमः सर्गः – मातृदर्शनम्
104. चतुरधिकशततमः सर्गः – रामभरतसंवादः
105. पञ्चाधिकशततमः सर्गः – रामवाक्यम्
106. षडधिकशततमः सर्गः – भरतवचनम्
107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम्
108. अष्टाधिकशततमः सर्गः – जाबालिवाक्यम्
109. नवाधिकशततमः सर्गः – सत्यप्रशंसा
110. दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्
111. एकादशाधिकशततमः सर्गः – भरतानुशासनम्
112. द्वादशाधिकशततमः सर्गः – पादुकाप्रदानम्
113. त्रयोदशाधिकशततमः सर्गः – पादुकाग्रहणम्
114. चतुर्दशाधिकशततमः सर्गः – अयोध्याप्रवेशः
115. पञ्चदशाधिकशततमः सर्गः – नन्दिग्रामनिवासः
116. षोडशाधिकशततमः सर्गः – खरविप्रकरणकथनम्
117. सप्तदशाधिकशततमः सर्गः – सीतापातिव्रत्यप्रशंसा