वाल्मीकि रामायणे अयोध्याकाण्ड - अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्

॥ रामसन्देशाख्यानम् ॥

प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः ।
अथाऽऽजुहाव तं सूतं रामवृत्तान्तकारणात् ॥ १ ॥

तदा सूतो महाराजं कृताञ्जलिरुपस्थितः।
राममेवानुशोचन्तं दुःखशोकसमन्वितम् ॥ २ ॥

वृद्धं परम सन्तप्तं नवग्रहमिव द्विपम् ।
विनिःश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् ॥ ३ ॥

राजा तु रजसा धूतं ध्वस्ताङ्गं समुपस्थितम् ।
अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् ॥ ४ ॥

क्व नु वत्स्यति धर्मात्मा वृक्ष मूलमुपाश्रितः ।
सोऽत्यन्तसुखितः सूत किमशिष्यति राघवः ॥ ५ ॥

दुःखस्यानुचितो दुःखं सुमन्त्र शयनोचितः ।
भूमिपालात्मजो भूमौ शेते कथमनाथवत् ॥ ६ ॥

यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः ।
स वत्स्यति कथं रामः विजनं वनमाश्रितः ॥ ७ ॥

व्यालैः मृगैः आचरितं कृष्णसर्पनिषेवितम् ।
कथं कुमारौ वैदेह्या सार्धं वनमुपस्थितौ ॥ ८ ॥

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।
राजपुत्रौ कथं पादैः अवरुह्य रथाद्गतौ ॥ ९ ॥

सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ ।
वनान्तं प्रविशन्तौ तौ अश्विनाविव मन्दरम् ॥ १० ॥

किमुवाच वचो रामः किमुवाच च लक्ष्मणः ।
सुमन्त्र वनमासाद्य किमुवाच च मैथिली ॥ ११ ॥

आसितं शयितं भुक्तं सूत रामस्य कीर्तय ।
जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥ १२ ॥

इति सूतो नरेन्द्रेण चोदितः सज्जमानया ।
उवाच वाचा राजानं सबाष्पपरिरब्धया ॥ १३ ॥

अब्रवीन्मां महाराज धर्ममेवानुपालयन् ।
अञ्जलिं राघवः कृत्वा शिरसाऽभिप्रणम्य च ॥ १४ ॥

सूत मद्वचनात्तस्य तातस्य विदितात्मनः ।
शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥ १५ ॥

सर्वमन्तः पुरं वाच्यं सूत मद्वचनात्त्वया ।
आरोग्यमविशेषेण यथाऽर्हं चाभिवादनम् ॥ १६ ॥

माता च मम कौसल्या कुशलं चाभिवादनम् ।
अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः ॥ १७ ॥

धर्मनित्या यथाकालमग्न्यगारपरा भव ।
देवि देवस्य पादौ च देववत् परिपालय ॥ १८ ॥

अभिमानं च मानं च त्यक्त्वा वर्तस्व मातृषु ।
अनुराजानमार्यां च कैकेयीमम्ब कारय ॥ १९ ॥

कुमारे भरते वृत्तिर्वर्तितव्या च राजवत् ।
अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥ २० ॥

भरतः कुशलं वाच्यः वाच्यो मद्वचनेन च ।
सर्वास्वैव यथान्यायं वृत्तिं वर्तस्व मातृषु ॥ २१ ॥

वक्तव्यश्च महाबाहुरिक्ष्वाकु कुलनन्दनः ।
पितरं यौवराज्यस्थो राज्यस्थमनुपालय ॥ २२ ॥

अतिक्रान्तवया राजा मास्मैनं व्यवरोरुधः ।
कुमारराज्ये जीवत्वं तस्यैवाज्ञाप्रवर्तनात् ॥ २३ ॥

अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन् ।
मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥ २४ ॥

इत्येवं मां महाराज बृवन्नेव महायशाः ।
रामः राजीव ताम्राक्षो भृशमश्रूण्यवर्तयत् ॥ २५ ॥

लक्ष्मणस्तु सुसङ्क्रुद्धो निश्श्वसन् वाक्यमब्रवीत् ।
केनायमपराधेन राजपुत्रः विवासितः ॥ २६ ॥

राज्ञा तु खलु कैकेय्या लघुत्वाश्रित्य शासनम् ।
कृतं कार्यमकार्यं वा वयं येनाभिपीडिताः ॥ २७ ॥

यदि प्रव्राजितः रामः लोभकारणकारितम् ।
वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ॥ २८ ॥

इदं तावद्यथाकाममीश्वरस्य कृते कृतम् ।
रामस्य तु परित्यागे न हेतुमुपलक्षये ॥ २९ ॥

असमीक्ष्य समारब्धं विरुद्धं बुद्धि लाघवात् ।
जनयिष्यति सङ्क्रोशं राघवस्य विवासनम् ॥ ३० ॥

अहं तावन् महाराजे पितृत्वं नोपलक्षये ।
भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥ ३१ ॥

सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् ।
सर्वलोकोऽनुरज्येत कथं त्वाऽनेन कर्मणा ॥ ३२ ॥

सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिकम् ।
सर्वलोकं विरुध्येमं कथं राजा भविष्यसि ॥ ३३ ॥

जानकी तु महाराज निःश्वसन्ती मनस्विनी ।
भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता ॥ ३४ ॥

अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी ।
तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत् ॥ ३५ ॥

उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता ।
मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ॥ ३६ ॥

तथैव रामोऽश्रु मुखः कृताञ्जलिः
स्थितोऽभवल्लक्ष्मणबाहु पालितः ।
तथैव सीता रुदती तपस्विनी
निरीक्षते राजरथं तथैव माम् ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥

<< 57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम् 59. एकोनषष्टितमः सर्गः – दशरथविलापः >>

1. प्रथमः सर्गः – रामाभिषेकव्यवसायः

2. द्वितीयः सर्गः – परिषदनुमोदनम्

3. तृतीयः सर्गः – पुत्रानुशासनम्

4. चतुर्थः सर्गः – मात्राशीःपरिग्रहः

5. पञ्चमः सर्गः – व्रतचर्याविधानम्

6. षष्ठः सर्गः – पौरोत्सेकः

7. सप्तमः सर्गः – मन्थरापरिदेवनम्

8. अष्टमः सर्गः – मन्थरोपजापः

9. नवमः सर्गः – रामप्रवासनोपायचिन्ता

10. दशमः सर्गः – कैकेय्यनुनयः

11. एकादशः सर्गः – वरद्वयनिर्बन्धः

12. द्वादशः सर्गः – कैकेयीनिवर्तनप्रयासः

13. त्रयोदशः सर्गः – दशरथविलापः

14. चतुर्दशः सर्गः – कैकेय्युपालम्भः

15. पञ्चदशः सर्गः – सुमन्त्रप्रेषणम्

16. षोडशः सर्गः – रामप्रस्थानम्

17. सप्तदशः सर्गः – रामागमनम्

18. अष्टादशः सर्गः – वनवासनिदेशः

19. एकोनविंशः सर्गः – रामप्रतिज्ञा

20. विंशः सर्गः – कौसल्याक्रन्दः

21. एकविंशः सर्गः – कौसल्यालक्ष्मणप्रतिबोधनम्

22. द्वाविंशः सर्गः – दैवप्राबल्यम्

23. त्रयोविंशः सर्गः – लक्ष्मणक्रोधः

24. चतुर्विंशः सर्गः – कौसल्यार्तिसमाश्वासनम्

25. पञ्चविंशः सर्गः – मातृस्वस्त्ययनम्

26. षड्विंशः सर्गः – सीताप्रत्यवस्थापनम्

27. सप्तविंशः सर्गः – पतिव्रताध्यवसायः

28. अष्टाविंशः सर्गः – वनदुःखप्रतिबोधनम्

29. एकोनत्रिंशः सर्गः – वनगमनविज्ञप्तिः (वनानुगमनयाचनाञानिर्बन्धः)

30. त्रिंशः सर्गः – वनगमनाभ्युपपत्तिः

31. एकत्रिंशः सर्गः – लक्ष्मणवनानुगमनाभ्यनुज्ञा

32. द्वात्रिंशः सर्गः – वित्तविश्राणनम्

33. त्रयोस्त्रिंशः सर्गः – पौरवाक्यम्

34. चतुस्त्रिंशः सर्गः – दशरथसमाश्वासनम्

35. पञ्चत्रिंशः सर्गः – सुमन्त्रगर्हणम्

36. षट्त्रिंशः सर्गः – सिद्धार्थप्रतिबोधनम्

37. सप्तत्रिंशः सर्गः – चीरपरिग्रहनिमित्तवसिष्ठक्रोधः

38. अष्टात्रिंशः सर्गः – जनाक्रोशः

39. एकोनचत्वारिंशः सर्गः – वनगमनापृच्छा

40. चत्वारिंशः सर्गः – पौराद्यनुव्रज्या

41. एकचत्वारिंशः सर्गः – नगरसङ्क्षोभः

42. द्विचत्वारिंशः सर्गः – दशरथाक्रन्दः

43. त्रिचत्वारिंशः सर्गः – कौसल्यापरिदेवितम्

44. चतुश्चत्वारिंशः सर्गः – सुमित्राश्वासनम्

45. पञ्चचत्वारिंशः सर्गः – पौरयाचनम्

46. षट्चत्वारिंशः सर्गः – पौरमोहनम्

47. सप्तचत्वारिंशः सर्गः – पौरनिवृत्तिः

48. अष्टचत्वारिंशः सर्गः – पौराङ्गनाविलापः

49. एकोनपञ्चाशः सर्गः – जानपदाक्रोशः

50. पञ्चाशः सर्गः – गुहसङ्गतम्

51. एकपञ्चाशः सर्गः – गुहलक्ष्मणजागरणम्

52. द्विपञ्चाशः सर्गः – गङ्गातरणम्

53. त्रिपञ्चाशः सर्गः – रामसङ्क्षोभः

54. चतुःपञ्चाशः सर्गः – भरद्वाजाश्रमाभिगमनम्

55. पञ्चपञ्चाशः सर्गः – यमुनातरणम्

56. षट्पञ्चाशः सर्गः – चित्रकूटनिवासः

57. सप्तपञ्चाशः सर्गः – सुमन्त्रोपावर्तनम्

58. अष्टपञ्चाशः सर्गः – रामसन्देशाख्यानम्

59. एकोनषष्टितमः सर्गः – दशरथविलापः

60. षष्टितमः सर्गः – कौसल्यासमाश्वासनम्

61. एकषष्टितमः सर्गः – कौसल्योपालम्भः

62. द्विषष्टितमः सर्गः – कौसल्याप्रसादनम्

63. त्रिषष्टितमः सर्गः – ऋषिकुमारवधाख्यानम्

64. चतुःषष्टितमः सर्गः – दशरथदिष्टान्तः

65. पञ्चषष्टितमः सर्गः – अन्तःपुराक्रन्दः

66. षट्षष्टितमः सर्गः – तैलद्रोण्यधिशयनम्

67. सप्तषष्टितमः सर्गः – अराजकदुरवस्थावर्णनम्

68. अष्टषष्टितमः सर्गः – दूतप्रेषणम्

69. एकोनसप्ततितमः सर्गः – भरतदुःस्वप्नः

70. सप्ततितमः सर्गः – भरतप्रस्थानम्

71. एकसप्ततितमः सर्गः – अयोध्यागमनम्

72. द्विसप्ततितमः सर्गः – भरतसन्तापः

73. त्रिसप्ततितमः सर्गः – कैकेयीविगर्हणम्

74. चतुःसप्ततितमः सर्गः – कैकेय्याक्रोशः

75. पञ्चसप्ततितमः सर्गः – भरतशपथः

76. षट्सप्ततितमः सर्गः – दशरथौर्ध्वदैहिकम्

77. सप्तसप्ततितमः सर्गः – भरतशत्रुघ्नविलापः

78. अष्टसप्ततितमः सर्गः – कुब्जाविक्षेपः

79. एकोनाशीतितमः सर्गः – सचिवप्रार्थनाप्रतिषेधः

80. अशीतितमः सर्गः – मार्गसंस्कारः

81. एकाशीतितमः सर्गः – सभास्तानम्

82. द्वयशीतितमः सर्गः – सेनाप्रस्थापनम्

83. त्र्यशीतितमः सर्गः – भरतवनप्रस्थानम्

84. चतुरशीतितमः सर्गः – गुहागमनम्

85. पञ्चाशीतितमः सर्गः – गुहसमागमः

86. षडशीतितमः सर्गः – गुहवाक्यम्

87. सप्ताशीतितमः सर्गः – रामशयनादिप्रश्नः

88. अष्टाशीतितमः सर्गः – शय्यानुवीक्षणम्

89. एकोननवतितमः सर्गः – गङ्गातरणम्

90. नवतितमः सर्गः – भरद्वाजाश्रमनिवासः

91. एकनवतितमः सर्गः – भरद्वाजातिथ्यम्

92. द्विनवतितमः सर्गः – भरद्वाजामन्त्रणम्

93. त्रिनवतितमः सर्गः – चित्रकूटवनप्रेक्षणम्

94. चतुर्नवतितमः सर्गः – चित्रकूटवर्णना

95. पञ्चनवतितमः सर्गः – मन्दाकिनीवर्णना

96. षण्णवतितमः सर्गः – लक्ष्मणक्रोधः

97. सप्तनवतितमः सर्गः – भरतगुणप्रशंसा

98. अष्टनवतितमः सर्गः – रामान्वेषणम्

99. एकोनशततमः सर्गः – रामसमागमः

100. शततमः सर्गः – कच्चित्सर्गः

101. एकाधिकशततमः सर्गः – पितृदिष्टान्तश्रवणम्

102. द्व्यधिकशततमः सर्गः – निवापदानम्

103. त्र्यधिकशततमः सर्गः – मातृदर्शनम्

104. चतुरधिकशततमः सर्गः – रामभरतसंवादः

105. पञ्चाधिकशततमः सर्गः – रामवाक्यम्

106. षडधिकशततमः सर्गः – भरतवचनम्

107. सप्ताधिकशततमः सर्गः – रामप्रतिवचनम्

108. अष्टाधिकशततमः सर्गः – जाबालिवाक्यम्

109. नवाधिकशततमः सर्गः – सत्यप्रशंसा

110. दशाधिकशततमः सर्गः – इक्ष्वाकुवंशकीर्तनम्

111. एकादशाधिकशततमः सर्गः – भरतानुशासनम्

112. द्वादशाधिकशततमः सर्गः – पादुकाप्रदानम्

113. त्रयोदशाधिकशततमः सर्गः – पादुकाग्रहणम्

114. चतुर्दशाधिकशततमः सर्गः – अयोध्याप्रवेशः

115. पञ्चदशाधिकशततमः सर्गः – नन्दिग्रामनिवासः

116. षोडशाधिकशततमः सर्गः – खरविप्रकरणकथनम्

117. सप्तदशाधिकशततमः सर्गः – सीतापातिव्रत्यप्रशंसा

118. अष्टादशाधिकशततमः सर्गः – दिव्यालङ्कारग्रहणम्

119. एकोनविंशत्यधिकशततमः सर्गः – दण्डकारण्यप्रवेशः