वाल्मीकि रामायणे बालकाण्ड - द्विषष्टितमः सर्गः – अम्बरीषयज्ञः

॥ अम्बरीषयज्ञः ॥

शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः ।
व्यश्राम्यत्पुष्करे राजा मध्याह्ने रघुनन्दन ॥ १ ॥

तस्य विश्रममाणस्य शुनःशेपो महायशाः ।
पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह ॥ २ ॥

तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः ।
विवर्णवदनो दीनस्तृष्णया च श्रमेण च ॥ ३ ॥

पपाताङ्के मुनौ राम वाक्यं चेदमुवाच ह । [मुनेराशु]
न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः ॥ ४ ॥

त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गवः ।
त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ॥ ५ ॥

राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः ।
स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ॥ ६ ॥

त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा ।
पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् ॥ ७ ॥

तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः ।
सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह ॥ ८ ॥

यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः ।
परलोकहितार्थाय तस्य कालोऽयमागतः ॥ ९ ॥

अयं मुनिसुतो बालो मत्तः शरणमिच्छति ।
अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ॥ १० ॥

सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः ।
पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत ॥ ११ ॥

नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नितो भवेत् ।
देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः ॥ १२ ॥

मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः ।
साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन् ॥ १३ ॥

कथमात्मसुतान्हित्वा त्रायसेऽन्यसुतं विभो ।
अकार्यमिव पश्यामः श्वमांसमिव भोजने ॥ १४ ॥

तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुङ्गवः ।
क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥ १५ ॥

निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् ।
अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ॥ १६ ॥

श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु ।
पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ॥ १७ ॥

कृत्वा शापसमायुक्तान्पुत्रान्मुनिवरस्तदा ।
शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम् ॥ १८ ॥

पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः ।
वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर ॥ १९ ॥

इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक ।
अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि ॥ २० ॥

शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः ।
त्वरया राजसिंहं तमम्बरीषमुवाच ह ॥ २१ ॥

राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः ।
निर्वर्तयस्व राजेन्द्र दीक्षां च समुपाविश ॥ २२ ॥

तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः ।
जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः ॥ २३ ॥

सदस्यानुमते राजा पवित्रकृतलक्षणम् ।
पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् ॥ २४ ॥

स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ ।
इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥ २५ ॥

ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः ।
दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव ॥ २६ ॥

स च राजा नरश्रेष्ठ यज्ञस्यान्तमवाप्तवान् ।
फलं बहुगुणं राम सहस्राक्षप्रसादजम् ॥ २७ ॥

विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः ।
पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विषष्ठितमः सर्गः ॥ ६२ ॥

<< 61. एकषष्टितमः सर्गः – शुनःशेपविक्रयः 63. त्रिषष्टितमः सर्गः – मेनकानिर्वासः >>

1. प्रथमः सर्गः – नारदवाक्यम्

2. द्वितीयः सर्गः – ब्रह्मागमनम्

3. तृतीयः सर्गः – काव्यसङ्क्षेपः

4. चतुर्थः सर्गः – अनुक्रमणिका

5. पञ्चमः सर्गः – अयोध्यावर्णना

6. षष्ठः सर्गः – राजवर्णना

7. सप्तमः सर्गः – अमात्यवर्णना

8. अष्टमः सर्गः – सुमन्त्रवाक्यम्

9. नवमः सर्गः – ऋश्यशृङ्गोपाख्यानम्

10. दशमः सर्गः – ऋश्यशृङ्गस्याङ्गदेशानयनप्रकारः

11. एकादशः सर्गः – ऋश्यशृङ्गस्यायोध्याप्रवेशः

12. द्वादशः सर्गः – अश्वमेधसम्भारः

13. त्रयोदशः सर्गः – यज्ञशालाप्रवेशः

14. चतुर्दशः सर्गः – अश्वमेधः

15. पञ्चदशः सर्गः – रावणवधोपायः

16. षोडशः सर्गः – पायसोत्पत्तिः

17. सप्तदशः सर्गः – ऋक्षवानरोत्पत्तिः

18. अष्टादशः सर्गः – श्रीरामाद्यवतारः

19. एकोनविंशः सर्गः – विश्वामित्रवाक्यम्

20. विंशः सर्गः – दशरथवाक्यम्

21. एकविंशः सर्गः – वसिष्ठवाक्यम्

22. द्वाविंशः सर्गः – विद्याप्रदानम्

23. त्रयोविंशः सर्गः – कामाश्रमवासः

24. चतुर्विंशः सर्ग – ताटकावनप्रवेशः

25. पञ्चविंशः सर्गः – ताटकावृत्तान्तः

26. षड्विंशः सर्गः – ताटकावधः

27. सप्तविंशः सर्गः – अश्वग्रामप्रदानम्

28. अष्टाविंशः सर्गः – अश्वसंहारप्रहणम्

29. एकोनत्रिंशः सर्गः – सिद्धाश्रमः

30. त्रिंशः सर्गः – यज्ञरक्षणम्

31. एकत्रिंशः सर्गः – मिथिलाप्रस्थानम्

32. द्वात्रिंशः सर्गः – कुशनाभकन्योपाख्यानम्

33. त्रयस्त्रिंशः सर्गः – ब्रह्मदत्तविवाहः

34. चतुस्त्रिंशः सर्गः – विश्वामित्रवंशवर्णनम्

35. पञ्चत्रिंशः सर्गः – उमागङ्गावृत्तान्तसङ्क्षेपः

36. षट्त्रिंशः सर्गः – उमामाहात्म्यम्

37. सप्तत्रिंशः सर्गः – कुमारोत्पत्तिः

38. अष्टात्रिंशः सर्गः – सगरपुत्रजन्म

39. एकोनचत्वारिंशः सर्गः – पृथिवीविदारणम्

40. चत्वारिंशः सर्गः – कपिलदर्शनम्

41. एकचत्वारिंशः सर्गः – सगरयज्ञसमाप्तिः

42. द्विचत्वारिंशः सर्गः – भगीरथवरप्रदानम्

43. त्रिचत्वारिंशः सर्गः – गङ्गावतरणम्

44. चतुश्चत्वारिंशः सर्गः – सागरोद्धारः

45. पञ्चचत्वारिंशः सर्गः – अमृतोत्पत्तिः

46. षट्चत्वारिंशः सर्गः – दितिगर्भभेदः

47. सप्तचत्वारिंशः सर्गः – विशालागमनम्

48. अष्टचत्वारिंशः सर्गः – शक्राहल्याशापः

49. एकोनपञ्चाशः सर्गः – अहल्याशापमोक्षः

50. पञ्चाशः सर्गः – जनकसमागमः

51. एकपञ्चाशः सर्गः – विश्वामित्रवृत्तम्

52. द्विपञ्चाशः सर्गः – वसिष्ठातिथ्यम्

53. त्रिपञ्चाशः सर्गः – शबलानिष्क्रयः

54. चतुःपञ्चाशः सर्गः – पप्लवादिसृष्टिः

55. पञ्चपञ्चाशः सर्गः – विश्वामित्रधनुर्वेदाधिगमः

56. षट्पञ्चाशः सर्गः – ब्रह्मतेजोबलम्

57. सप्तपञ्चाशः सर्गः – त्रिशङ्कुयाजनप्रार्थना

58. अष्टपञ्चाशः सर्गः – त्रिशङ्कुशापः

59. एकोनषष्टितमः सर्गः – वासिष्ठशापः

60. षष्टितमः सर्गः – त्रिशङ्खस्वर्गः

61. एकषष्टितमः सर्गः – शुनःशेपविक्रयः

62. द्विषष्टितमः सर्गः – अम्बरीषयज्ञः

63. त्रिषष्टितमः सर्गः – मेनकानिर्वासः

64. चतुःषष्टितमः सर्गः – रम्भाशापः

65. पञ्चषष्टितमः सर्गः – ब्रह्मर्पित्वप्राप्तिः

66. षट्षष्टितमः सर्गः – धनुःप्रसङ्गः

67. सप्तषष्टितमः सर्गः – धनुर्भेङ्गः

68. अष्टषष्टितमः सर्गः – दशरथाह्वानम्

69. एकोनसप्ततितमः सर्गः – दशरथजनकसमागमः

70. सप्ततितमः सर्गः – कन्यावरणम्

71. एकसप्ततितमः सर्गः – कन्यादानप्रतिश्रवः

72. द्विसप्ततितमः सर्गः – गोदानमङ्गलम्

73. त्रिसप्ततितमः सर्गः – दशरथपुत्रोद्वाहः

74. चतुःसप्ततितमः सर्गः – जामदग्न्याभियोगः

75. पञ्चसप्ततितमः सर्गः – वैष्णवधनुः प्रशंसा

76. षट्सप्ततितमः सर्गः – जामदग्न्यप्रतिष्टम्भः

77. सप्तसप्ततितमः सर्गः – अयोध्याप्रवेशः