॥ ब्रह्मतेजोबलम् ॥
एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः ।
आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥
ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम् ।
वसिष्ठो भगवान्क्रोधादिदं वचनमब्रवीत् ॥ २ ॥
क्षत्रबन्धो स्थितोऽस्म्येष यद्बलं तद्विदर्शय ।
नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज ॥ ३ ॥
क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् ।
पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥ ४ ॥
तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुद्यतम् ।
ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा ॥ ५ ॥
वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा ।
ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ॥ ६ ॥
मानवं मोहनं चैव गान्धर्वं स्वापनं तथा ।
जृम्भणं मादनं चैव सन्तापनविलापने ॥ ७ ॥
शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् ।
ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ ८ ॥
पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी उभे ।
दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥ ९ ॥
धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च ।
वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥ १० ॥
शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा ।
वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥ ११ ॥
त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम् ।
एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥ १२ ॥
वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् ।
तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥ १३ ॥
तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान्गाधिनन्दनः ।
तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः ॥ १४ ॥
देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः ।
त्रैलोक्यमासीत्सन्त्रस्तं ब्रह्मास्त्रे समुदीरिते ॥ १५ ॥
तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा ।
वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव ॥ १६ ॥
ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः ।
त्रैलोक्यमोहनं रौद्रं रूपमासीत्सुदारुणम् ॥ १७ ॥
रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।
मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः ॥ १८ ॥
प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः ।
विधूम इव कालाग्निर्यमदण्ड इवापरः ॥ १९ ॥
ततोऽस्तुवन्मुनिगणा वसिष्ठं जपतां वरम् ।
अमेयं ते बलं ब्रह्मंस्तेजो धारय तेजसा ॥ २० ॥
निगृहीतस्त्वया ब्रह्मन्विश्वामित्रो महातपाः ।
प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः ॥ २१ ॥
एवमुक्तो महातेजाः शमं चक्रे महातपाः ।
विश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत् ॥ २२ ॥
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ।
एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥ २३ ॥
तदेतत्समवेक्ष्याहं प्रसन्नेन्द्रियमानसः ।
तपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारणम् ॥ २४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥
<< 55. पञ्चपञ्चाशः सर्गः – विश्वामित्रधनुर्वेदाधिगमः 57. सप्तपञ्चाशः सर्गः – त्रिशङ्कुयाजनप्रार्थना >>2. द्वितीयः सर्गः – ब्रह्मागमनम्
3. तृतीयः सर्गः – काव्यसङ्क्षेपः
4. चतुर्थः सर्गः – अनुक्रमणिका
5. पञ्चमः सर्गः – अयोध्यावर्णना
7. सप्तमः सर्गः – अमात्यवर्णना
8. अष्टमः सर्गः – सुमन्त्रवाक्यम्
9. नवमः सर्गः – ऋश्यशृङ्गोपाख्यानम्
10. दशमः सर्गः – ऋश्यशृङ्गस्याङ्गदेशानयनप्रकारः
11. एकादशः सर्गः – ऋश्यशृङ्गस्यायोध्याप्रवेशः
12. द्वादशः सर्गः – अश्वमेधसम्भारः
13. त्रयोदशः सर्गः – यज्ञशालाप्रवेशः
15. पञ्चदशः सर्गः – रावणवधोपायः
16. षोडशः सर्गः – पायसोत्पत्तिः
17. सप्तदशः सर्गः – ऋक्षवानरोत्पत्तिः
18. अष्टादशः सर्गः – श्रीरामाद्यवतारः
19. एकोनविंशः सर्गः – विश्वामित्रवाक्यम्
21. एकविंशः सर्गः – वसिष्ठवाक्यम्
22. द्वाविंशः सर्गः – विद्याप्रदानम्
23. त्रयोविंशः सर्गः – कामाश्रमवासः
24. चतुर्विंशः सर्ग – ताटकावनप्रवेशः
25. पञ्चविंशः सर्गः – ताटकावृत्तान्तः
27. सप्तविंशः सर्गः – अश्वग्रामप्रदानम्
28. अष्टाविंशः सर्गः – अश्वसंहारप्रहणम्
29. एकोनत्रिंशः सर्गः – सिद्धाश्रमः
30. त्रिंशः सर्गः – यज्ञरक्षणम्
31. एकत्रिंशः सर्गः – मिथिलाप्रस्थानम्
32. द्वात्रिंशः सर्गः – कुशनाभकन्योपाख्यानम्
33. त्रयस्त्रिंशः सर्गः – ब्रह्मदत्तविवाहः
34. चतुस्त्रिंशः सर्गः – विश्वामित्रवंशवर्णनम्
35. पञ्चत्रिंशः सर्गः – उमागङ्गावृत्तान्तसङ्क्षेपः
36. षट्त्रिंशः सर्गः – उमामाहात्म्यम्
37. सप्तत्रिंशः सर्गः – कुमारोत्पत्तिः
38. अष्टात्रिंशः सर्गः – सगरपुत्रजन्म
39. एकोनचत्वारिंशः सर्गः – पृथिवीविदारणम्
40. चत्वारिंशः सर्गः – कपिलदर्शनम्
41. एकचत्वारिंशः सर्गः – सगरयज्ञसमाप्तिः
42. द्विचत्वारिंशः सर्गः – भगीरथवरप्रदानम्
43. त्रिचत्वारिंशः सर्गः – गङ्गावतरणम्
44. चतुश्चत्वारिंशः सर्गः – सागरोद्धारः
45. पञ्चचत्वारिंशः सर्गः – अमृतोत्पत्तिः
46. षट्चत्वारिंशः सर्गः – दितिगर्भभेदः
47. सप्तचत्वारिंशः सर्गः – विशालागमनम्
48. अष्टचत्वारिंशः सर्गः – शक्राहल्याशापः
49. एकोनपञ्चाशः सर्गः – अहल्याशापमोक्षः
51. एकपञ्चाशः सर्गः – विश्वामित्रवृत्तम्
52. द्विपञ्चाशः सर्गः – वसिष्ठातिथ्यम्
53. त्रिपञ्चाशः सर्गः – शबलानिष्क्रयः
54. चतुःपञ्चाशः सर्गः – पप्लवादिसृष्टिः
55. पञ्चपञ्चाशः सर्गः – विश्वामित्रधनुर्वेदाधिगमः
56. षट्पञ्चाशः सर्गः – ब्रह्मतेजोबलम्
57. सप्तपञ्चाशः सर्गः – त्रिशङ्कुयाजनप्रार्थना
58. अष्टपञ्चाशः सर्गः – त्रिशङ्कुशापः
59. एकोनषष्टितमः सर्गः – वासिष्ठशापः
60. षष्टितमः सर्गः – त्रिशङ्खस्वर्गः
61. एकषष्टितमः सर्गः – शुनःशेपविक्रयः
62. द्विषष्टितमः सर्गः – अम्बरीषयज्ञः
63. त्रिषष्टितमः सर्गः – मेनकानिर्वासः
64. चतुःषष्टितमः सर्गः – रम्भाशापः
65. पञ्चषष्टितमः सर्गः – ब्रह्मर्पित्वप्राप्तिः
66. षट्षष्टितमः सर्गः – धनुःप्रसङ्गः
67. सप्तषष्टितमः सर्गः – धनुर्भेङ्गः
68. अष्टषष्टितमः सर्गः – दशरथाह्वानम्
69. एकोनसप्ततितमः सर्गः – दशरथजनकसमागमः
70. सप्ततितमः सर्गः – कन्यावरणम्
71. एकसप्ततितमः सर्गः – कन्यादानप्रतिश्रवः
72. द्विसप्ततितमः सर्गः – गोदानमङ्गलम्
73. त्रिसप्ततितमः सर्गः – दशरथपुत्रोद्वाहः
74. चतुःसप्ततितमः सर्गः – जामदग्न्याभियोगः
75. पञ्चसप्ततितमः सर्गः – वैष्णवधनुः प्रशंसा