वाल्मीकि रामायणे बालकाण्ड - सप्तत्रिंशः सर्गः – कुमारोत्पत्तिः

॥ कुमारोत्पत्तिः ॥

तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा ।
सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥ १ ॥

ततोऽब्रुवन्सुराः सर्वे भगवन्तं पितामहम् ।
प्रणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरोगमाः ॥ २ ॥

यो नः सेनापतिर्देव दत्तो भगवता पुरा ।
[* अधिकपाठः –
स न जातोऽद्य भगवन्नस्मद्वैरिनिबर्हणः ।
तत्पिता भगवान् शर्वो हिमवच्छिखरेऽद्य वै ।
*]
तपः परममास्थाय तप्यते स्म सहोमया ॥ ३ ॥

यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥ ४ ॥

देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।
सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥ ५ ॥

शैलपुत्र्या यदुक्तं तन्न प्रजाः सन्तु पत्निषु ।
तस्या वचनमक्लिष्टं सत्यमेव न संशयः ॥ ६ ॥

इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः ।
जनयिष्यति देवानां सेनापतिमरिन्दमम् ॥ ७ ॥

ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् ।
उमायास्तद्बहुमतं भविष्यति न संशयः ॥ ८ ॥

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन ।
प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥ ९ ॥

ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् ।
अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥ १० ॥

देवकार्यमिदं देव संविधत्स्व हुताशन ।
शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ॥ ११ ॥

देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः ।
गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥ १२ ॥

अग्नेस्तु वचनं श्रुत्वा दिव्यं रूपमधारयत् ।
दृष्ट्वा तन्महिमानां स समन्तादवकीर्यत ॥ १३ ॥

समन्ततस्तदा देवीमभ्यषिञ्चत पावकः ।
सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥ १४ ॥

तमुवाच ततो गङ्गा सर्वदेवपुरोगमम् ।
अशक्ता धारणे देव तव तेजः समुद्धतम् ॥ १५ ॥

दह्यमानाऽग्निना तेन सम्प्रव्यथितचेतना ।
अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ॥ १६ ॥

इह हैमवते पादे गर्भोऽयं सन्निवेश्यताम् ।
श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ॥ १७ ॥

उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदाऽनघ ।
यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम् ॥ १८ ॥

काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम् ।
ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यदेवाभ्यजायत ॥ १९ ॥

मलं तस्याभवत्तत्र त्रपु सीसकमेव च ।
तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥ २० ॥

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् ।
सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम् ॥ २१ ॥

[* अधिक श्लोकं –
तं देशं तु ततो ब्रह्मा सम्प्राप्यैनमभाषत ।
जातस्य रूपं यत्तस्माज्जातरूपं भविष्यति ॥
*]

जातरूपमिति ख्यातं तदाप्रभृति राघव ।
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ॥ २२ ॥

तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ।
तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः ॥ २३ ॥

क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ।
ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ॥ २४ ॥

ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ।
ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ॥ २५ ॥

पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ।
तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ॥ २६ ॥

स्नापयन्परया लक्ष्म्या दीप्यमानं यथाऽनलम् ।
स्कन्द इत्यब्रुवन्देवाः स्कन्नं गर्भपरिस्रवात् ॥ २७ ॥

कार्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम् ।
प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ॥ २८ ॥

षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ।
गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा ॥ २९ ॥

अजयत्स्वेन वीर्येण दैत्यसैन्यगणान्विभुः ।
सुरसेनागणपतिं ततस्तममलद्युतिम् ॥ ३० ॥

अभ्यषिञ्चन्सुरगणाः समेत्याग्निपुरोगमाः ।
एष ते राम गङ्गाया विस्तरोऽभिहितो मया ॥ ३१ ॥

कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ।
भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।
आयुष्मान्पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥

<< 36. षट्त्रिंशः सर्गः – उमामाहात्म्यम् 38. अष्टात्रिंशः सर्गः – सगरपुत्रजन्म >>

1. प्रथमः सर्गः – नारदवाक्यम्

2. द्वितीयः सर्गः – ब्रह्मागमनम्

3. तृतीयः सर्गः – काव्यसङ्क्षेपः

4. चतुर्थः सर्गः – अनुक्रमणिका

5. पञ्चमः सर्गः – अयोध्यावर्णना

6. षष्ठः सर्गः – राजवर्णना

7. सप्तमः सर्गः – अमात्यवर्णना

8. अष्टमः सर्गः – सुमन्त्रवाक्यम्

9. नवमः सर्गः – ऋश्यशृङ्गोपाख्यानम्

10. दशमः सर्गः – ऋश्यशृङ्गस्याङ्गदेशानयनप्रकारः

11. एकादशः सर्गः – ऋश्यशृङ्गस्यायोध्याप्रवेशः

12. द्वादशः सर्गः – अश्वमेधसम्भारः

13. त्रयोदशः सर्गः – यज्ञशालाप्रवेशः

14. चतुर्दशः सर्गः – अश्वमेधः

15. पञ्चदशः सर्गः – रावणवधोपायः

16. षोडशः सर्गः – पायसोत्पत्तिः

17. सप्तदशः सर्गः – ऋक्षवानरोत्पत्तिः

18. अष्टादशः सर्गः – श्रीरामाद्यवतारः

19. एकोनविंशः सर्गः – विश्वामित्रवाक्यम्

20. विंशः सर्गः – दशरथवाक्यम्

21. एकविंशः सर्गः – वसिष्ठवाक्यम्

22. द्वाविंशः सर्गः – विद्याप्रदानम्

23. त्रयोविंशः सर्गः – कामाश्रमवासः

24. चतुर्विंशः सर्ग – ताटकावनप्रवेशः

25. पञ्चविंशः सर्गः – ताटकावृत्तान्तः

26. षड्विंशः सर्गः – ताटकावधः

27. सप्तविंशः सर्गः – अश्वग्रामप्रदानम्

28. अष्टाविंशः सर्गः – अश्वसंहारप्रहणम्

29. एकोनत्रिंशः सर्गः – सिद्धाश्रमः

30. त्रिंशः सर्गः – यज्ञरक्षणम्

31. एकत्रिंशः सर्गः – मिथिलाप्रस्थानम्

32. द्वात्रिंशः सर्गः – कुशनाभकन्योपाख्यानम्

33. त्रयस्त्रिंशः सर्गः – ब्रह्मदत्तविवाहः

34. चतुस्त्रिंशः सर्गः – विश्वामित्रवंशवर्णनम्

35. पञ्चत्रिंशः सर्गः – उमागङ्गावृत्तान्तसङ्क्षेपः

36. षट्त्रिंशः सर्गः – उमामाहात्म्यम्

37. सप्तत्रिंशः सर्गः – कुमारोत्पत्तिः

38. अष्टात्रिंशः सर्गः – सगरपुत्रजन्म

39. एकोनचत्वारिंशः सर्गः – पृथिवीविदारणम्

40. चत्वारिंशः सर्गः – कपिलदर्शनम्

41. एकचत्वारिंशः सर्गः – सगरयज्ञसमाप्तिः

42. द्विचत्वारिंशः सर्गः – भगीरथवरप्रदानम्

43. त्रिचत्वारिंशः सर्गः – गङ्गावतरणम्

44. चतुश्चत्वारिंशः सर्गः – सागरोद्धारः

45. पञ्चचत्वारिंशः सर्गः – अमृतोत्पत्तिः

46. षट्चत्वारिंशः सर्गः – दितिगर्भभेदः

47. सप्तचत्वारिंशः सर्गः – विशालागमनम्

48. अष्टचत्वारिंशः सर्गः – शक्राहल्याशापः

49. एकोनपञ्चाशः सर्गः – अहल्याशापमोक्षः

50. पञ्चाशः सर्गः – जनकसमागमः

51. एकपञ्चाशः सर्गः – विश्वामित्रवृत्तम्

52. द्विपञ्चाशः सर्गः – वसिष्ठातिथ्यम्

53. त्रिपञ्चाशः सर्गः – शबलानिष्क्रयः

54. चतुःपञ्चाशः सर्गः – पप्लवादिसृष्टिः

55. पञ्चपञ्चाशः सर्गः – विश्वामित्रधनुर्वेदाधिगमः

56. षट्पञ्चाशः सर्गः – ब्रह्मतेजोबलम्

57. सप्तपञ्चाशः सर्गः – त्रिशङ्कुयाजनप्रार्थना

58. अष्टपञ्चाशः सर्गः – त्रिशङ्कुशापः

59. एकोनषष्टितमः सर्गः – वासिष्ठशापः

60. षष्टितमः सर्गः – त्रिशङ्खस्वर्गः

61. एकषष्टितमः सर्गः – शुनःशेपविक्रयः

62. द्विषष्टितमः सर्गः – अम्बरीषयज्ञः

63. त्रिषष्टितमः सर्गः – मेनकानिर्वासः

64. चतुःषष्टितमः सर्गः – रम्भाशापः

65. पञ्चषष्टितमः सर्गः – ब्रह्मर्पित्वप्राप्तिः

66. षट्षष्टितमः सर्गः – धनुःप्रसङ्गः

67. सप्तषष्टितमः सर्गः – धनुर्भेङ्गः

68. अष्टषष्टितमः सर्गः – दशरथाह्वानम्

69. एकोनसप्ततितमः सर्गः – दशरथजनकसमागमः

70. सप्ततितमः सर्गः – कन्यावरणम्

71. एकसप्ततितमः सर्गः – कन्यादानप्रतिश्रवः

72. द्विसप्ततितमः सर्गः – गोदानमङ्गलम्

73. त्रिसप्ततितमः सर्गः – दशरथपुत्रोद्वाहः

74. चतुःसप्ततितमः सर्गः – जामदग्न्याभियोगः

75. पञ्चसप्ततितमः सर्गः – वैष्णवधनुः प्रशंसा

76. षट्सप्ततितमः सर्गः – जामदग्न्यप्रतिष्टम्भः

77. सप्तसप्ततितमः सर्गः – अयोध्याप्रवेशः