॥ राजवर्णना ॥
तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रहः ।
दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥ १ ॥
इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी ।
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥ २ ॥
बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः ।
धनैश्च सञ्चयैश्चान्यैः शक्रवैश्रवणोपमः ॥ ३ ॥
यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
तथा दशरथो राजा वसन् जगदपालयत् ॥ ४ ॥
तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता ।
पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥ ५ ॥
तस्मिन्पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।
नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥ ६ ॥
नाल्पसंनिचयः कश्चिदासीत्तस्मिन्पुरोत्तमे ।
कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥ ७ ॥
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।
द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ॥ ८ ॥
सर्वे नराश्च नार्यश्च धर्मशीलाः सुसम्यताः ।
उदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥ ९ ॥
नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् ।
नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते ॥ १० ॥
नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।
नाहस्ताभरणो वाऽपि दृश्यते नाप्यनात्मवान् ॥ ११ ॥
नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।
कश्चिदासीदयोध्यायां न च निर्वृत्तसङ्करः ॥ १२ ॥
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।
दानाध्ययनशीलाश्च सम्यताश्च प्रतिग्रहे ॥ १३ ॥
न नास्तिको नानृतको न कश्चिदबहुश्रुतः ।
नासूयको न चाऽशक्तो नाविद्वान्विद्यते क्वचित् ॥ १४ ॥
नाषडङ्गविदत्रासीन्नाव्रतो नासहस्रदः ।
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥ १५ ॥
कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् ।
द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥ १६ ॥
वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।
कृतज्ञाश्च वदान्याश्च शूरा विक्रमसम्युताः ॥ १७ ॥
दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ।
सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥ १८ ॥
क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः ।
शूद्राः स्वधर्म निरतास्त्रीन्वर्णानुपचारिणः ॥ १९ ॥
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।
यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥ २० ॥
योधानामग्निकल्पानां पेशलानाममर्षिणाम् ।
सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥ २१ ॥
काम्भोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः ।
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥ २२ ॥
विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।
मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥ २३ ॥
ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
अञ्जनादपि निष्पन्नैर्वामनादपि च द्विपैः ॥ २४ ॥
भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्थथा ।
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥ २५ ॥
नित्यमत्तैः सदा पूर्णा नागैरचलसन्निभैः ।
सा योजने च द्वे भूयः सत्यनामा प्रकाशते ॥ २६ ॥
यस्यां दशरथो राजा वसन् जगदपालयत् ।
तां पुरीं स महातेजा राजा दशरथो महान् ।
शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥ २७ ॥
तां सत्यनामां दृढतोरणार्गलां
गृहैर्विचित्रैरुपशोभितां शिवाम् ।
पुरीमयोध्यां नृसहस्रसङ्कुलां
शशास वै शक्रसमो महीपतिः ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठः सर्गः ॥ ६ ॥
<< 5. पञ्चमः सर्गः – अयोध्यावर्णना 7. सप्तमः सर्गः – अमात्यवर्णना >>2. द्वितीयः सर्गः – ब्रह्मागमनम्
3. तृतीयः सर्गः – काव्यसङ्क्षेपः
4. चतुर्थः सर्गः – अनुक्रमणिका
5. पञ्चमः सर्गः – अयोध्यावर्णना
6. षष्ठः सर्गः – राजवर्णना
7. सप्तमः सर्गः – अमात्यवर्णना
8. अष्टमः सर्गः – सुमन्त्रवाक्यम्
9. नवमः सर्गः – ऋश्यशृङ्गोपाख्यानम्
10. दशमः सर्गः – ऋश्यशृङ्गस्याङ्गदेशानयनप्रकारः
11. एकादशः सर्गः – ऋश्यशृङ्गस्यायोध्याप्रवेशः
12. द्वादशः सर्गः – अश्वमेधसम्भारः
13. त्रयोदशः सर्गः – यज्ञशालाप्रवेशः
15. पञ्चदशः सर्गः – रावणवधोपायः
16. षोडशः सर्गः – पायसोत्पत्तिः
17. सप्तदशः सर्गः – ऋक्षवानरोत्पत्तिः
18. अष्टादशः सर्गः – श्रीरामाद्यवतारः
19. एकोनविंशः सर्गः – विश्वामित्रवाक्यम्
21. एकविंशः सर्गः – वसिष्ठवाक्यम्
22. द्वाविंशः सर्गः – विद्याप्रदानम्
23. त्रयोविंशः सर्गः – कामाश्रमवासः
24. चतुर्विंशः सर्ग – ताटकावनप्रवेशः
25. पञ्चविंशः सर्गः – ताटकावृत्तान्तः
27. सप्तविंशः सर्गः – अश्वग्रामप्रदानम्
28. अष्टाविंशः सर्गः – अश्वसंहारप्रहणम्
29. एकोनत्रिंशः सर्गः – सिद्धाश्रमः
30. त्रिंशः सर्गः – यज्ञरक्षणम्
31. एकत्रिंशः सर्गः – मिथिलाप्रस्थानम्
32. द्वात्रिंशः सर्गः – कुशनाभकन्योपाख्यानम्
33. त्रयस्त्रिंशः सर्गः – ब्रह्मदत्तविवाहः
34. चतुस्त्रिंशः सर्गः – विश्वामित्रवंशवर्णनम्
35. पञ्चत्रिंशः सर्गः – उमागङ्गावृत्तान्तसङ्क्षेपः
36. षट्त्रिंशः सर्गः – उमामाहात्म्यम्
37. सप्तत्रिंशः सर्गः – कुमारोत्पत्तिः
38. अष्टात्रिंशः सर्गः – सगरपुत्रजन्म
39. एकोनचत्वारिंशः सर्गः – पृथिवीविदारणम्
40. चत्वारिंशः सर्गः – कपिलदर्शनम्
41. एकचत्वारिंशः सर्गः – सगरयज्ञसमाप्तिः
42. द्विचत्वारिंशः सर्गः – भगीरथवरप्रदानम्
43. त्रिचत्वारिंशः सर्गः – गङ्गावतरणम्
44. चतुश्चत्वारिंशः सर्गः – सागरोद्धारः
45. पञ्चचत्वारिंशः सर्गः – अमृतोत्पत्तिः
46. षट्चत्वारिंशः सर्गः – दितिगर्भभेदः
47. सप्तचत्वारिंशः सर्गः – विशालागमनम्
48. अष्टचत्वारिंशः सर्गः – शक्राहल्याशापः
49. एकोनपञ्चाशः सर्गः – अहल्याशापमोक्षः
51. एकपञ्चाशः सर्गः – विश्वामित्रवृत्तम्
52. द्विपञ्चाशः सर्गः – वसिष्ठातिथ्यम्
53. त्रिपञ्चाशः सर्गः – शबलानिष्क्रयः
54. चतुःपञ्चाशः सर्गः – पप्लवादिसृष्टिः
55. पञ्चपञ्चाशः सर्गः – विश्वामित्रधनुर्वेदाधिगमः
56. षट्पञ्चाशः सर्गः – ब्रह्मतेजोबलम्
57. सप्तपञ्चाशः सर्गः – त्रिशङ्कुयाजनप्रार्थना
58. अष्टपञ्चाशः सर्गः – त्रिशङ्कुशापः
59. एकोनषष्टितमः सर्गः – वासिष्ठशापः
60. षष्टितमः सर्गः – त्रिशङ्खस्वर्गः
61. एकषष्टितमः सर्गः – शुनःशेपविक्रयः
62. द्विषष्टितमः सर्गः – अम्बरीषयज्ञः
63. त्रिषष्टितमः सर्गः – मेनकानिर्वासः
64. चतुःषष्टितमः सर्गः – रम्भाशापः
65. पञ्चषष्टितमः सर्गः – ब्रह्मर्पित्वप्राप्तिः
66. षट्षष्टितमः सर्गः – धनुःप्रसङ्गः
67. सप्तषष्टितमः सर्गः – धनुर्भेङ्गः
68. अष्टषष्टितमः सर्गः – दशरथाह्वानम्
69. एकोनसप्ततितमः सर्गः – दशरथजनकसमागमः
70. सप्ततितमः सर्गः – कन्यावरणम्
71. एकसप्ततितमः सर्गः – कन्यादानप्रतिश्रवः
72. द्विसप्ततितमः सर्गः – गोदानमङ्गलम्
73. त्रिसप्ततितमः सर्गः – दशरथपुत्रोद्वाहः
74. चतुःसप्ततितमः सर्गः – जामदग्न्याभियोगः
75. पञ्चसप्ततितमः सर्गः – वैष्णवधनुः प्रशंसा